01.094
Core-Pancharatra:Bhishma’s Vow, and the boon from Shantanu.
वैशम्पायन उवाच॥
स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः। धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥१-०९४-१॥
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्। नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ॥१-०९४-२॥
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः। आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥१-०९४-३॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः। धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥१-०९४-४॥
एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ। न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥१-०९४-५॥
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम्। तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥१-०९४-६॥
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः। प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥१-०९४-७॥
शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा। नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥१-०९४-८॥
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः। ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥१-०९४-९॥
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने। वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ॥१-०९४-१०॥
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः। दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥१-०९४-११॥
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः। तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ॥ अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥१-०९४-१२॥
वधः पशुवराहाणां तथैव मृगपक्षिणाम्। शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ॥१-०९४-१३॥
धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान्। समं शशास भूतानि कामरागविवर्जितः ॥१-०९४-१४॥
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः। न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ॥१-०९४-१५॥
असुखानामनाथानां तिर्यग्योनिषु वर्तताम्। स एव राजा भूतानां सर्वेषामभवत्पिता ॥१-०९४-१६॥
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति। श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥१-०९४-१७॥
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः। रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥१-०९४-१८॥
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः। गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥१-०९४-१९॥
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च। महाबलो महासत्त्वो महावीर्यो महारथः ॥१-०९४-२०॥
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्। भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ॥१-०९४-२१॥
तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः। स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥१-०९४-२२॥
ततो निमित्तमन्विच्छन्ददर्श स महामनाः। कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ॥१-०९४-२३॥
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम्। कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥१-०९४-२४॥
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके। अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥१-०९४-२५॥
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा। नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥१-०९४-२६॥
स तु तं पितरं दृष्ट्वा मोहयामास मायया। संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥१-०९४-२७॥
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः। शङ्कमानः सुतं गङ्गामब्रवीद् दर्शयेति ह ॥१-०९४-२८॥
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्। गृहीत्वा दक्षिणे पाणौ तं कुमारम् अलङ्कृतम् ॥१-०९४-२९॥
अलङ्कृताम् आभरणैः अरजोम्बरधारिणीम्। दृष्टपूर्वाम् अपि सतीं न अभ्यजानात् स शन्तनुः ॥१-०९४-३०॥
गङ्गोवाच॥
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः। स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥१-०९४-३१॥
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान्। कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥१-०९४-३२॥
सुराणां संमतो नित्यमसुराणां च भारत। उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥१-०९४-३३॥
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः। यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥ तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ॥१-०९४-३४॥
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान्। यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ॥१-०९४-३५॥
महेष्वासमिमं राजन्राजधर्मार्थकोविदम्। मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ॥१-०९४-३६॥
वैशम्पायन उवाच॥
तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः। भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥१-०९४-३७॥
पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम्। सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ॥ पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥१-०९४-३८॥
पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः। राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥१-०९४-३९॥
स तथा सह पुत्रेण रममाणो महीपतिः। वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥१-०९४-४०॥
स कदाचिद्वनं यातो यमुनामभितो नदीम्। महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥१-०९४-४१॥
तस्य प्रभवमन्विच्छन् विचचार समन्ततः। स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ॥१-०९४-४२॥
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम्। कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥१-०९४-४३॥
साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरीम्। पितुर्नियोगात् भद्रं ते दाशराज्ञो महात्मनः ॥१-०९४-४४॥
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्। समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ॥१-०९४-४५॥
स गत्वा पितरं तस्या वरयामास तां तदा। पर्यपृच्छत्ततः तस्याः पितरं च आत्मकारणात् ॥१-०९४-४६॥
स च तं प्रत्युवाचेदं दाशराजो महीपतिम्। जातमात्रैव मे देया वराय वरवर्णिनी। हृदि कामस्तु मे कश्चित् तं निबोध जनेश्वर ॥१-०९४-४७॥
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ। सत्यवागसि सत्येन समयं कुरु मे ततः ॥१-०९४-४८॥
समयेन प्रदद्यां ते कन्यामहमिमां नृप। न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥१-०९४-४९॥
शन्तनुरुवाच॥
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा। दातव्यं चेत् प्रदास्यामि न त्वदेयं कथञ्चन ॥१-०९४-५०॥
दाश उवाच॥
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः। त्वदूर्ध्वम् अभिषेक्तव्यः न अन्यः कश्चन पार्थिवः ॥१-०९४-५१॥
वैशम्पायन उवाच॥
नाकामयत तं दातुं वरं दाशाय शन्तनुः। शरीरजेन तीव्रेण दह्यमानः अपि भारत ॥१-०९४-५२॥
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः। प्रत्ययात् हास्तिनपुरं शोकोपहतचेतनः ॥१-०९४-५३॥
ततः कदाचित् शोचन्तं शन्तनुं ध्यानमास्थितम्। पुत्रः देवव्रतः अभ्येत्य पितरं वाक्यम् अब्रवीत् ॥१-०९४-५४॥
सर्वतः भवतः क्षेमं विधेयाः सर्वपार्थिवाः। तत् किमर्थम् इहाभीक्ष्णं परिशोचसि दुःखितः। ध्यान्निव च किं राजन् नाभिभाषसि किञ्चन ॥१-०९४-५५॥
एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत। असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥१-०९४-५६॥
अपत्यं नः त्वम् एवैकः कुले महति भारत। अनित्यता च मर्त्यानाम् अतः शोचामि पुत्रक ॥१-०९४-५७॥
कथञ्चित् तव गाङ्गेय विपत्तौ नास्ति नः कुलम्। असंशयं त्वम् एवैकः शतादपि वरः सुतः ॥१-०९४-५८॥
न चाप्यहं वृथा भूयो दारान् कर्तुम् इहोत्सहे। सन्तानस्य अविनाशाय कामये भद्रमस्तु ते। अनपत्यतैकपुत्रत्वम् इत्याहुः धर्मवादिनः ॥१-०९४-५९॥
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सह दक्षिणाः। सर्वाणि एतान्य अपत्यस्य कलां नार्हन्ति षोडशीम् ॥१-०९४-६०॥
एवमेव मनुष्येषु स्यात् च सर्वप्रजासु अपि। यद् अपत्यम् महाप्राज्ञ तत्र मे नास्ति संशयः। एषा त्रयी पुराणानाम् उत्तमानां च शाश्वती ॥१-०९४-६१॥
त्वं च शूरः सदा अमर्षी शस्त्रनित्यः च भारत। न अन्यत्र शस्त्रात् तस्मात् ते निधनं विद्यते अनघ ॥१-०९४-६२॥
सः अस्मि संशयम् आपन्नः त्वयि शान्ते कथं भवेत्। इति ते कारणं तात दुःखस्य उक्तम् अशेषतः ॥१-०९४-६३॥
ततः तत् कारणं ज्ञात्वा कृत्स्नं च एवम् अशेषतः। देवव्रतः महाबुद्धिः प्रययौ अनुचिन्तयन् ॥१-०९४-६४॥
अभ्यगच्छत् तदा एव आशु वृद्धामात्यं पितुः हितम्। तम् अपृच्छत् तदा अभ्येत्य पितुः तत् शोककारणम् ॥१-०९४-६५॥
तस्मै स कुरुमुख्याय यथावत् परिपृच्छते। वरं शशंस कन्यां ताम् उद्दिश्य भरतर्षभ ॥१-०९४-६६॥
ततः देवव्रतः वृद्धैः क्षत्रियैः सहितः तदा। अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ॥१-०९४-६७॥
तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च। अब्रवीत् च एनम् आसीनं राजसंसदि भारत ॥१-०९४-६८॥
त्वम् एव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ। पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥१-०९४-६९॥
कः हि सम्बन्धकम् श्लाघ्यम् ईप्सितम् यौनि म् ईदृशम्। अतिक्रामन् तप्येत साक्षात् अपि शतक्रतुः ॥१-०९४-७०॥
अपत्यं च एतद् आर्ज्यस्य यः युष्माकं समः गुणैः। यस्य शुक्रात् सत्यवती प्रादुर्भूता यशस्विनी ॥१-०९४-७१॥
तेन मे बहुशः तात पिता ते परिकीर्तितः। अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥१-०९४-७२॥
असितः हि अपि देवर्षिः प्रत्याख्यातः पुरा मया। सत्यवत्या भृशं हि अर्थी स आसीत् ऋषिसत्तमः ॥१-०९४-७३॥
कन्या-पितृत्वात् किञ्चित् तु वक्ष्यामि भरतर्षभ। बलवत् सपत्नताम् अत्र दोषं पश्यामि केवलम् ॥१-०९४-७४॥
यस्य हि त्वं सपत्नः स्यात् गन्धर्वस्य असुरस्य वा। न स जातु सुखं जीवेत् त्वयि क्रुद्धे परन्तप ॥१-०९४-७५॥
एतावान् अत्र दोषः हि न अन्यः कश्चन पार्थिव। एतत् जानीहि भद्रं ते दानादाने परन्तप ॥१-०९४-७६॥
एवम् उक्तः तु गाङ्गेयः तत् युक्तं प्रत्यभाषत। शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥१-०९४-७७॥
इदं मे मतम् आदत्स्व सत्यं सत्यवतां वर। नैव जातः न वा जातः ईदृशं वक्तुम् उत्सहेत ॥१-०९४-७८॥
एवम् एतत् करिष्यामि यथा त्वम् अनु भाषसे। यः अस्यां जनिष्यते पुत्रः सः नः राजा भविष्यति ॥१-०९४-७९॥
इति उक्तः पुनः एव अथ तम् दाशः प्रत्यभाषत। चिकीर्षुः दुष्करं कर्म राज्यार्थे भरतर्षभ ॥१-०९४-८०॥
त्वम् एव नाथः पर्याप्तः शन्तनोः अमितद्युतेः। कन्यायाः च एव धर्मात्मन् प्रभुः दानाय च ईश्वरः ॥१-०९४-८१॥
इदं तु वचनं सौम्य कार्यं च एव निबोध मे। कौमारिकाणां शीलेन वक्ष्यामि अहम् अरिंदम ॥१-०९४-८२॥
यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण। राजमध्ये प्रतिज्ञातं अनुरूपं तव एव तत् ॥१-०९४-८३॥
न अन्यथा तत् महाबाहो संशयः अत्र न कश्चन। तव अपत्यं भवेत् यत् तु तत्र नः संशयः महान् ॥१-०९४-८४॥
तस्य तत् मतम् आज्ञाय सत्यधर्मपरायणः। प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया ॥१-०९४-८५॥
देवव्रत उवाच॥
दाशराज निबोध एतत् वचनं मे नृपोत्तम। शृण्वतां भूमिपालानां यत् ब्रवीमि पितुः कृते ॥१-०९४-८६॥
राज्यं तावत् पूर्वमेव मया त्यक्तं नराधिप। अपत्यहेतोः अपि च करोमि एषः विनिश्चयः ॥१-०९४-८७॥
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति। अपुत्रस्य अपि मे लोकाः भविष्यन्ति अक्षयाः दिवि ॥१-०९४-८८॥
वैशम्पायन उवाच॥
तस्य तत् वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः। ददानीति एव तं दाशः धर्मात्मा प्रत्यभाषत ॥१-०९४-८९॥
ततः अन्तरिक्षे अप्सरसो देवाः स-ऋषिगणाः तथा। अभ्यवर्षन्त कुसुमैः भीष्मः अयम् इति च अब्रुवन् ॥१-०९४-९०॥
ततः स पितुरर्थाय ताम् उवाच यशस्विनीम्। अधिरोह रथं मातः गच्छावः स्वगृहान् इति ॥१-०९४-९१॥
एवम् उक्त्वा तु भीष्मः तां रथम् आरोप्य भामिनीम्। आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ॥१-०९४-९२॥
तस्य तत् दुष्करं कर्म प्रशशंसुः नराधिपाः। समेताः च पृथक् च एव भीष्मः अयम् इति च अब्रुवन् ॥१-०९४-९३॥
तत् दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः। स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥१-०९४-९४॥