Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.095
Core:Death of Chitrangada, Vichitraveerya ascends the throne.
वैशम्पायन उवाच॥
ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः। तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ॥१-०९५-१॥
ततः शान्तनवो धीमान्सत्यवत्यामजायत। वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥१-०९५-२॥
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः। विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥१-०९५-३॥
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ। स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ॥१-०९५-४॥
स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम्। स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥१-०९५-५॥
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्। मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ॥१-०९५-६॥
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा। गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा॥ तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥१-०९५-७॥
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः। नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥१-०९५-८॥
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले। मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥१-०९५-९॥
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम्। अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥१-०९५-१०॥
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि। भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ॥१-०९५-११॥
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्। कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥१-०९५-१२॥
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः। अन्वशासन्महाराज पितृपैतामहं पदम् ॥१-०९५-१३॥
स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः। पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥१-०९५-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.