01.101
Pancharatra:Curse of Animandavya
जनमेजय उवाच॥
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् । कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ॥१-१०१-१॥
वैशम्पायन उवाच॥
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥१-१०१-२॥
स आश्रमपदद्वारि वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥१-१०१-३॥
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः । तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ॥ अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ॥१-१०१-४॥
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम । निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥१-१०१-५॥
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् । आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥१-१०१-६॥
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् । कतरेण पथा याता दस्यवो द्विजसत्तम ॥ तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥१-१०१-७॥
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः । न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ॥१-१०१-८॥
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् । ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥१-१०१-९॥
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति । संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥१-१०१-१०॥
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति । स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥१-१०१-११॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥१-१०१-१२॥
शूलस्थः स तु धर्मात्मा कालेन महता ततः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् । धारयामास च प्राणानृषींश्च समुपानयत् ॥१-१०१-१३॥
शूलाग्रे तप्यमानेन तपस्तेन महात्मना । सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ॥१-१०१-१४॥
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः । दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् । श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ॥१-१०१-१५॥
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥१-१०१-१६॥
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥१-१०१-१७॥
यन्मयापकृतं मोहादज्ञानादृषिसत्तम । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥१-१०१-१८॥
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । कृतप्रसादो राजा तं ततः समवतारयत् ॥१-१०१-१९॥
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह । अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥१-१०१-२०॥
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ॥ अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥१-१०१-२१॥
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् । आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ॥१-१०१-२२॥
किं नु तद्दुष्कृतं कर्म मया कृतमजानता । यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ॥ शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥१-१०१-२३॥
धर्म उवाच॥
पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता । कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥१-१०१-२४॥
अणीमाण्डव्य उवाच॥
अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः । शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ॥१-१०१-२५॥
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् । आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ॥ परेण कुर्वतामेवं दोष एव भविष्यति ॥१-१०१-२६॥
वैशम्पायन उवाच॥
एतेन त्वपराधेन शापात्तस्य महात्मनः । धर्मो विदुररूपेण शूद्रयोनावजायत ॥१-१०१-२७॥
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः । दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥१-१०१-२८॥