01.103
Core:Dhritarstra marries Gandhari
भीष्म उवाच॥
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् । अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥१-१०३-१॥
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः । नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥१-१०३-२॥
मया च सत्यवत्या च कृष्णेन च महात्मना । समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥१-१०३-३॥
वर्धते तदिदं पुत्र कुलं सागरवद्यथा । तथा मया विधातव्यं त्वया चैव विशेषतः ॥१-१०३-४॥
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः । सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥१-१०३-५॥
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः । उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥१-१०३-६॥
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर । सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥१-१०३-७॥
विदुर उवाच॥
भवान्पिता भवान्माता भवान्नः परमो गुरुः । तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥१-१०३-८॥
वैशम्पायन उवाच॥
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् । आराध्य वरदं देवं भगनेत्रहरं हरम् ॥ गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ॥१-१०३-९॥
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः । ततो गान्धारराजस्य प्रेषयामास भारत ॥१-१०३-१०॥
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा । कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ॥ ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥१-१०३-११॥
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् । आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥१-१०३-१२॥
ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा । बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥ नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ॥१-१०३-१३॥
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् । स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ॥१-१०३-१४॥
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् । पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥१-१०३-१५॥
गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः । तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥१-१०३-१६॥
वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा । वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥१-१०३-१७॥