Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.109
Core-Pancharatra:Pandu cursed by Kimdama
जनमेजय उवाच॥
कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः । अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥१-१०९-१॥
नामधेयानि चाप्येषां कथ्यमानानि भागशः । त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥१-१०९-२॥
ते हि सर्वे महात्मानो देवराजपराक्रमाः । त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ॥१-१०९-३॥
तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् । तेषामाजननं सर्वं वैशम्पायन कीर्तय ॥१-१०९-४॥
वैशम्पायन उवाच॥
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥१-१०९-५॥
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः । निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥१-१०९-६॥
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥१-१०९-७॥
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् । क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥१-१०९-८॥
मृग उवाच॥
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च । वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥१-१०९-९॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥१-१०९-१०॥
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥१-१०९-११॥
पाण्डुरुवाच॥
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥१-१०९-१२॥
अच्छद्मनामायया च मृगाणां वध इष्यते । स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥१-१०९-१३॥
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः । आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥१-१०९-१४॥
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥१-१०९-१५॥
मृग उवाच॥
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥१-१०९-१६॥
पाण्डुरुवाच॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥१-१०९-१७॥
मृग उवाच॥
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् । मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥१-१०९-१८॥
सर्वभूतहिते काले सर्वभूतेप्सिते तथा । को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥ पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥१-१०९-१९॥
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् । वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥१-१०९-२०॥
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् । अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥१-१०९-२१॥
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥१-१०९-२२॥
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥१-१०९-२३॥
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् । मुनिं मूलफलाहारं मृगवेषधरं नृप ॥ वसमानमरण्येषु नित्यं शमपरायणम् ॥१-१०९-२४॥
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् । द्वयोर्नृशंसकर्तारमवशं काममोहितम् ॥ जीवितान्तकरो भाव एवमेवागमिष्यति ॥१-१०९-२५॥
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः । व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥१-१०९-२६॥
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥ मृगरूपधरं हत्वा मामेवं काममोहितम् ॥१-१०९-२७॥
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि । प्रियया सह संवासं प्राप्य कामविमोहितः ॥ त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥१-१०९-२८॥
अन्तकाले च संवासं यया गन्तासि कान्तया । प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ॥ भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥१-१०९-२९॥
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ॥१-१०९-३०॥
वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत । मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥१-१०९-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.