Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.113
Core:Prompted by Pandu, Kuti informs him of the boon and agrees to invite Dharma for progeny.
वैशम्पायन उवाच॥
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥१-११३-१॥
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह । यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥१-११३-२॥
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥१-११३-३॥
अनावृताः किल पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥१-११३-४॥
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ॥१-११३-५॥
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ॥ पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥१-११३-६॥
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते । स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥१-११३-७॥
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते । स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥१-११३-८॥
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥१-११३-९॥
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् । कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥१-११३-१०॥
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥१-११३-११॥
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥१-११३-१२॥
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥१-११३-१३॥
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥१-११३-१४॥
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥१-११३-१५॥
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥१-११३-१६॥
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥१-११३-१७॥
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ॥१-११३-१८॥
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च । न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥१-११३-१९॥
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥१-११३-२०॥
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥१-११३-२१॥
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी । भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥१-११३-२२॥
अस्माकमपि ते जन्म विदितं कमलेक्षणे । कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥१-११३-२३॥
अत एतानि सर्वाणि कारणानि समीक्ष्य वै । ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥१-११३-२४॥
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते । नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥१-११३-२५॥
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥१-११३-२६॥
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा । यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥१-११३-२७॥
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् । यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥१-११३-२८॥
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे । प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥१-११३-२९॥
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् । पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ॥ त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥१-११३-३०॥
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥१-११३-३१॥
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥१-११३-३२॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥१-११३-३३॥
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥१-११३-३४॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा स ते वशमुपैष्यति ॥१-११३-३५॥
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥१-११३-३६॥
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप । तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥१-११३-३७॥
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥१-११३-३८॥
पाण्डुरुवाच॥
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥१-११३-३९॥
अधर्मेण न नो धर्मः संयुज्येत कथञ्चन । लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥१-११३-४०॥
धार्मिकश्च कुरूणां स भविष्यति न संशयः । दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥१-११३-४१॥
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥१-११३-४२॥
वैशम्पायन उवाच॥
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥१-११३-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.