Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.133
Core:Pandavas depart to Varanavrata.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः । आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥१-१३३-१॥
pāṇḍavās tu rathāny uktvā sadaśvair anilopamaiḥ । ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat ॥1॥
[पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; तु (tu) - indeed; रथान् (rathān) - chariots; युक्त्वा (yuktvā) - having yoked; सत्-अश्वैः (sat-aśvaiḥ) - with excellent horses; अनिल-उपमैः (anila-upamaiḥ) - like the wind; आरोहमाणाः (ārohamāṇāḥ) - while ascending; भीष्मस्य (bhīṣmasya) - of Bhīṣma; पादौ (pādau) - feet; जगृहुः (jagṛhuḥ) - they grasped; आर्तवत् (ārtavat) - with reverence;]
The Pāṇḍavas, having yoked their chariots with excellent horses like the wind, ascended and reverently touched Bhīṣma’s feet.
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः । अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥१-१३३-२॥
rājñaś ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ । anyeṣāṁ caiva vṛddhānāṁ vidurasya kṛpasya ca ॥2॥
[राज्ञः (rājñaḥ) - of the king; च (ca) - and; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; द्रोणस्य (droṇasya) - of Droṇa; च (ca) - and; महात्मनः (mahātmanaḥ) - the great-souled; अन्येषाम् (anyeṣām) - of others; च (ca) - and; एव (eva) - indeed; वृद्धानाम् (vṛddhānām) - of the elders; विदुरस्य (vidurasya) - of Vidura; कृपस्य (kṛpasya) - of Kṛpa; च (ca) - and;]
They also honored the great-souled Droṇa, King Dhṛtarāṣṭra, and the other elders, including Vidura and Kṛpa.
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः । समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ॥१-१३३-३॥
evaṁ sarvān kurūn vṛddhān abhivādya yatavratāḥ । samāliṅgya samānāṁś ca bālaiś cāpy abhivāditāḥ ॥3॥
[एवम् (evam) - thus; सर्वान् (sarvān) - all; कुरून् (kurūn) - Kuru elders; वृद्धान् (vṛddhān) - aged; अभिवाद्य (abhivādya) - having bowed to; यतव्रताः (yatavratāḥ) - self-restrained; समालिङ्ग्य (samāliṅgya) - having embraced; समानान् (samānān) - equals; च (ca) - and; बालैः (bālaiḥ) - by the young; च (ca) - and; अपि (api) - also; अभिवादिताः (abhivāditāḥ) - greeted;]
Thus, the self-restrained ones bowed to all the Kuru elders, embraced their equals, and were greeted by the young.
सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् । सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ॥१-१३३-४॥
sarvā mātṛs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam । sarvāḥ prakṛtayaś caiva prayayur vāraṇāvatam ॥4॥
[सर्वाः (sarvāḥ) - all; मातृः (mātṛḥ) - mothers; तथा (tathā) - likewise; अपृष्ट्वा (apṛṣṭvā) - having respectfully asked; कृत्वा (kṛtvā) - having done; च (ca) - and; एव (eva) - indeed; प्रदक्षिणम् (pradakṣiṇam) - circumambulation; सर्वाः (sarvāḥ) - all; प्रकृतयः (prakṛtayaḥ) - the citizens; च (ca) - and; एव (eva) - indeed; प्रययुः (prayayuḥ) - departed; वारणावतम् (vāraṇāvatam) - to Vāraṇāvata;]
Having respectfully asked all the mothers and circumambulated them, all the citizens too departed for Vāraṇāvata.
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः । पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ॥१-१३३-५॥
viduraś ca mahāprājñas tathānye kurupuṅgavāḥ । paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ ॥5॥
[विदुरः (viduraḥ) - Vidura; च (ca) - and; महा-प्राज्ञः (mahā-prājñaḥ) - greatly wise; तथा (tathā) - also; अन्ये (anye) - other; कुरु-पुङ्गवाः (kuru-puṅgavāḥ) - foremost of the Kurus; पौराः (paurāḥ) - the citizens; च (ca) - and; पुरुष-व्याघ्रान् (puruṣa-vyāghrān) - tiger-like men; अन्वयुः (anvayuḥ) - followed; शोक-कर्त्शिताः (śoka-karśitāḥ) - emaciated with grief;]
Vidura, the wise one, other Kuru chiefs, and the citizens, followed the tiger-like men, tormented with grief.
तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा । शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ॥१-१३३-६॥
tatra kecid bruvanti sma brāhmaṇā nirbhayās tadā । śocamānāḥ pāṇḍuputrān atīva bharatarṣabha ॥6॥
[तत्र (tatra) - there; केचित् (kecit) - some; ब्रुवन्ति स्म (bruvanti sma) - were saying; ब्राह्मणाः (brāhmaṇāḥ) - the Brāhmaṇas; निर्भयाः (nirbhayāḥ) - fearless; तदा (tadā) - at that time; शोचमानाः (śocamānāḥ) - lamenting; पाण्डुपुत्रान् (pāṇḍuputrān) - the sons of Pāṇḍu; अतीव (atīva) - deeply; भरत-ऋषभ (bharata-ṛṣabha) - O bull among the Bharatas;]
At that time, some fearless Brāhmaṇas there, deeply lamenting the sons of Pāṇḍu, spoke thus, O bull among the Bharatas.
विषमं पश्यते राजा सर्वथा तमसावृतः । धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ॥१-१३३-७॥
viṣamaṁ paśyate rājā sarvathā tamasāvṛtaḥ । dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṁ prapaśyati ॥7॥
[विषमम् (viṣamam) - unjust; पश्यते (paśyate) - sees; राजा (rājā) - the king; सर्वथा (sarvathā) - entirely; तमसा-आवृतः (tamasā-āvṛtaḥ) - covered by darkness; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; सु-दुर्बुद्धिः (su-durbuddhiḥ) - of very poor judgment; न (na) - not; च (ca) - and; धर्मम् (dharmaṁ) - righteousness; प्रपश्यति (prapaśyati) - perceives;]
Blinded by darkness, the king sees only injustice; Dhṛtarāṣṭra, of very poor judgment, does not perceive righteousness.
न हि पापमपापात्मा रोचयिष्यति पाण्डवः । भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ॥ कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥१-१३३-८॥
na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ । bhīmo vā balināṁ śreṣṭhaḥ kaunteyo vā dhanañjayaḥ ॥ kuta eva mahāprājñau mādrīputrau kariṣyataḥ ॥8॥
[न (na) - not; हि (hi) - indeed; पापम् (pāpam) - evil; अपापात्मा (apāpātmā) - sinless soul; रोचयिष्यति (rocayiṣyati) - would choose; पाण्डवः (pāṇḍavaḥ) - the son of Pāṇḍu; भीमः (bhīmaḥ) - Bhīma; वा (vā) - or; बलिनाम् (balinām) - among the strong; श्रेष्ठः (śreṣṭhaḥ) - the best; कौन्तेयः (kaunteyaḥ) - son of Kuntī; वा (vā) - or; धनञ्जयः (dhanañjayaḥ) - Arjuna; कुतः एव (kutaḥ eva) - how then; महा-प्राज्ञौ (mahā-prājñau) - the greatly wise; माध्री-पुत्रौ (mādrī-putrau) - sons of Mādrī; करिष्यतः (kariṣyataḥ) - would act;]
The sinless Pāṇḍava would not choose evil, nor Bhīma, the best among the strong, nor Arjuna, the son of Kuntī. How then would the wise sons of Mādrī do so?
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते । अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ॥ विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ॥१-१३३-९॥
tad rājyaṁ pitṛtaḥ prāptaṁ dhṛtarāṣṭro na mṛṣyate । adharmaṁ akhilaṁ kiṁ nu bhīṣmo'yam anumanyate ॥ vivāsyamānān asthāne kaunteyān bharatarṣabhān ॥9॥
[तत् (tat) - that; राज्यम् (rājyaṁ) - kingdom; पितृतः (pitṛtaḥ) - by inheritance; प्राप्तम् (prāptam) - obtained; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; न (na) - not; मृष्यते (mṛṣyate) - tolerates; अधर्मम् (adharmaṁ) - unrighteousness; अखिलम् (akhilam) - complete; किम् नु (kim nu) - why indeed; भीष्मः (bhīṣmaḥ) - Bhīṣma; अयम् (ayam) - this; अनुमन्यते (anumanyate) - consents; विवास्यमानान् (vivāsyamānān) - being exiled; अस्थाने (asthāne) - unjustly; कौन्तेयान् (kaunteyān) - sons of Kuntī; भरत-ऋषभान् (bharata-ṛṣabhān) - bulls of the Bharatas;]
Dhṛtarāṣṭra cannot tolerate that kingdom, rightfully inherited. Why then does Bhīṣma approve of this complete unrighteousness—the unjust exile of the sons of Kuntī, the bulls of the Bharatas?
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा । विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥१-१३३-१०॥
piteva hi nṛpo'smākam abhūc chāntanavaḥ purā । vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ ॥10॥
[पिता (pitā) - like a father; एव (eva) - truly; नृपः (nṛpaḥ) - king; अस्माकम् (asmākam) - to us; अभूत् (abhūt) - was; शान्तनवः (śāntanavaḥ) - son of Śāntanu (Bhīṣma); पुरा (purā) - formerly; विचित्रवीर्यः (vicitravīryaḥ) - Vicitravīrya; राजर्षिः (rājarṣiḥ) - royal sage; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; च (ca) - and; कुरु-नन्दनः (kuru-nandanaḥ) - delight of the Kurus;]
The son of Śāntanu was like a father to us in former times—Vicitravīrya, the royal sage, and Pāṇḍu, delight of the Kurus.
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति । राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ॥१-१३३-११॥
sa tasmin puruṣavyāghre diṣṭabhāvaṁ gate sati । rājamputrān imān bālān dhṛtarāṣṭro na mṛṣyate ॥11॥
[सः (saḥ) - he; तस्मिन् (tasmin) - in that; पुरुष-व्याघ्रे (puruṣa-vyāghre) - tiger among men; दिष्ट-भावम् (diṣṭa-bhāvam) - destined condition; गते (gate) - having gone; सति (sati) - having occurred; राजपुत्रान् (rājaputrān) - the royal sons; इमान् (imān) - these; बालान् (bālān) - boys; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; न (na) - not; मृष्यते (mṛṣyate) - tolerates;]
Though that tiger among men has met his destined end, Dhṛtarāṣṭra cannot tolerate these royal boys.
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् । गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ॥१-१३३-१२॥
vayam etad amṛṣyantaḥ sarva eva purottamāt । gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ ॥12॥
[वयम् (vayam) - we; एतत् (etat) - this; अमृष्यन्तः (amṛṣyantaḥ) - not tolerating; सर्वे (sarve) - all; एव (eva) - indeed; पुर-उत्तमात् (pura-uttamāt) - from the best of cities; गृहान् (gṛhān) - homes; विहाय (vihāya) - abandoning; गच्छामः (gacchāmaḥ) - we go; यत्र (yatra) - where; याति (yāti) - goes; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira;]
We, unable to tolerate this, will all leave our homes in this great city and go wherever Yudhiṣṭhira goes.
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः । उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ॥१-१३३-१३॥
tāṁs tathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ । uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ ॥13॥
[तान् (tān) - them; तथा-वादिनः (tathā-vādinaḥ) - speaking thus; पौरान् (paurān) - citizens; दुःखितान् (duḥkhitān) - sorrowful; दुःख-कर्त्शितः (duḥkha-karśitaḥ) - afflicted by grief; उवाच (uvāca) - said; परम-प्रीतः (parama-prītaḥ) - greatly pleased; धर्म-राजः (dharma-rājaḥ) - king of righteousness; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira;]
Yudhiṣṭhira, the righteous king, greatly moved, spoke to those sorrowful citizens who were grieved and speaking thus.
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः । अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥१-१३३-१४॥
pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ । aśaṅkamānais tat kāryam asmābhir iti no vratam ॥14॥
[पिता (pitā) - father; मान्यः (mānyaḥ) - honorable; गुरुः (guruḥ) - teacher; श्रेष्ठः (śreṣṭhaḥ) - highest; यत् (yat) - what; आह (āha) - said; पृथिवी-पतिः (pṛthivī-patiḥ) - lord of the earth; अशङ्कमानैः (aśaṅkamānaiḥ) - without suspicion; तत् (tat) - that; कार्यम् (kāryam) - should be done; अस्माभिः (asmābhiḥ) - by us; इति (iti) - thus; नः (naḥ) - our; व्रतम् (vratam) - vow;]
Whatever the honorable and supreme teacher, the lord of the earth, has said must be done by us without suspicion—that is our vow.
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् । आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ॥१-१३३-१५॥
bhavantaḥ suhṛdo'smākam asmān kṛtvā pradakṣiṇam । āśīrbhir abhinandyāsmān nivartadhvaṁ yathāgṛham ॥15॥
[भवन्तः (bhavantaḥ) - you all; सुहृदः (suhṛdaḥ) - friends; अस्माकम् (asmākam) - of us; अस्मान् (asmān) - us; कृत्वा (kṛtvā) - having done; प्रदक्षिणम् (pradakṣiṇam) - circumambulation; आशीर्भिः (āśīrbhiḥ) - with blessings; अभिनन्द्य (abhinandya) - having saluted; अस्मान् (asmān) - us; निवर्तध्वम् (nivartadhvam) - return; यथा (yathā) - to; गृहम् (gṛham) - home;]
You, our friends, having circumambulated us and blessed us, may return to your homes.
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते । तदा करिष्यथ मम प्रियाणि च हितानि च ॥१-१३३-१६॥
yadā tu kāryam asmākaṁ bhavadbhiḥ upapatsyate । tadā kariṣyatha mama priyāṇi ca hitāni ca ॥16॥
[यदा (yadā) - when; तु (tu) - indeed; कार्यम् (kāryam) - task; अस्माकम् (asmākam) - of us; भवद्भिः (bhavadbhiḥ) - by you; उपपत्स्यते (upapatsyate) - will arise; तदा (tadā) - then; करिष्यथ (kariṣyatha) - you shall do; मम (mama) - for me; प्रियाणि (priyāṇi) - pleasing things; च (ca) - and; हितानि (hitāni) - beneficial things; च (ca) - and;]
When the time comes for you to act on our behalf, then you shall do what is pleasing and beneficial for me.
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् । आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ॥१-१३३-१७॥
te tatheti pratijñāya kṛtvā caitān pradakṣiṇam । āśīrbhir abhinandya enāñ jagmur nagaram eva hi ॥17॥
[ते (te) - they; तथा (tathā) - thus; इति (iti) - so; प्रतिज्ञाय (pratijñāya) - having promised; कृत्वा (kṛtvā) - having done; च (ca) - and; एतान् (etān) - these; प्रदक्षिणम् (pradakṣiṇam) - circumambulation; आशीर्भिः (āśīrbhiḥ) - with blessings; अभिनन्द्य (abhinandya) - having saluted; एनान् (enān) - them; जग्मुः (jagmuḥ) - they went; नगरम् (nagaram) - to the city; एव (eva) - indeed; हि (hi) - truly;]
They promised thus, circumambulated them, saluted them with blessings, and returned to the city indeed.
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् । बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ॥१-१३३-१८॥
paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit । bodhayan pāṇḍavaśreṣṭham idaṁ vacanam abravīt ॥ prājñaḥ prājñaṁ pralāpajñaḥ samyag dharmārthadarśivān ॥18॥
[पौरेषु (paureṣu) - when the citizens; तु (tu) - indeed; निवृत्तेषु (nivṛtteṣu) - had withdrawn; विदुरः (viduraḥ) - Vidura; सर्व-धर्म-वित् (sarva-dharma-vit) - knower of all dharma; बोधयन् (bodhayan) - enlightening; पाण्डव-श्रेष्ठम् (pāṇḍava-śreṣṭham) - the best of Pāṇḍavas; इदम् (idam) - this; वचनम् (vacanam) - word; अब्रवीत् (abravīt) - spoke; प्राज्ञः (prājñaḥ) - wise; प्राज्ञम् (prājñam) - to the wise; प्रलापज्ञः (pralāpajñaḥ) - knower of hints; सम्यक्-धर्म-अर्थ-दर्शिवान् (samyak-dharma-artha-darśivān) - seer of true dharma and wealth;]
When the citizens had withdrawn, Vidura, knower of all dharma, spoke these words to the best of the Pāṇḍavas, a wise man to a wise man, knowing hints, and a seer of true dharma and wealth.
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा । अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ॥ यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ॥१-१३३-१९॥
vijñāyedam tathā kuryād āpadaṁ nistared yathā । alohaṁ niśitaṁ śastraṁ śarīraparikartanam ॥ yo vetti na tam āghnanti pratighātavidaṁ dviṣaḥ ॥19॥
[विज्ञाय (vijñāya) - understanding; इदम् (idam) - this; तथा (tathā) - thus; कुर्यात् (kuryāt) - one should do; आपदम् (āpadam) - danger; निस्तरेत् (nistaret) - should overcome; यथा (yathā) - as; अलोहम् (aloham) - non-metal; निशितम् (niśitam) - sharpened; शस्त्रम् (śastram) - weapon; शरीर-परिकर्तनम् (śarīra-parikartanam) - cutting the body; यः (yaḥ) - who; वेत्ति (vetti) - knows; न (na) - not; तम् (tam) - him; आघ्नन्ति (āghnanti) - strike; प्रतिघात-विदम् (pratighāta-vidam) - knower of resistance; द्विषः (dviṣaḥ) - enemies;]
One should act with understanding and escape danger, as one avoids a sharp weapon made of non-metal that cuts the body. He who knows how to counter is not struck by enemies.
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न दहेदिति चात्मानं यो रक्षति स जीवति ॥१-१३३-२०॥
kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ । na dahed iti cātmānaṁ yo rakṣati sa jīvati ॥20॥
[कक्षघ्नः (kakṣaghnaḥ) - destroyer of trees; शिशिरघ्नः (śiśiraghnaḥ) - destroyer of cold; च (ca) - and; महा-कक्षे (mahā-kakṣe) - in great conflagration; बिल-औकसः (bila-aukasaḥ) - one who dwells in a hole; न (na) - not; दहेत् (dahet) - should burn; इति (iti) - thus; आत्मानम् (ātmānam) - oneself; यः (yaḥ) - who; रक्षति (rakṣati) - protects; सः (saḥ) - he; जीवति (jīvati) - lives;]
Fire that destroys trees and cold cannot burn one who dwells in a deep hole during a great blaze; he who protects himself in that way survives.
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः । नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥१-१३३-२१॥
nācakṣur vetti panthānaṁ nācakṣur vindate diśaḥ । nādhṛtir bhūtim āpnoti budhyasvaivaṁ prabodhitaḥ ॥21॥
[न (na) - not; चक्षुः (cakṣuḥ) - the eye; वेत्ति (vetti) - knows; पन्थानम् (panthānam) - the path; न (na) - not; चक्षुः (cakṣuḥ) - the eye; विन्दते (vindate) - finds; दिशः (diśaḥ) - directions; न (na) - not; अधृतिः (adhṛtiḥ) - lack of firmness; भूतिम् (bhūtim) - success; आप्नोति (āpnoti) - obtains; बुध्यस्व (budhyasva) - understand; एवम् (evam) - thus; प्रबोधितः (prabodhitaḥ) - having been instructed;]
The eye does not know the path; the eye does not find the directions. One without firmness does not attain success. Understand this as you are instructed.
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् । श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥१-१३३-२२॥
anāptair dattam ādattē naraḥ śastram alohajam । śvāviccharaṇam āsādya pramucyeta hutāśanāt ॥22॥
[अनाप्तैः (anāptaiḥ) - by strangers; दत्तम् (dattam) - given; आदत्ते (ādattē) - one takes; नरः (naraḥ) - man; शस्त्रम् (śastram) - weapon; अलोहजम् (alohajam) - not made of metal; श्वावित्-शरणम् (śvāvit-śaraṇam) - shelter of a jackal (symbolic refuge); आसाद्य (āsādya) - having reached; प्रमुच्येत (pramucyeta) - may be freed; हुताशनात् (hutāśanāt) - from fire;]
A man takes a non-metal weapon given by strangers; by seeking the refuge of a jackal, he may escape from the fire.
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः । आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥१-१३३-२३॥
caran mārgān vijānāti nakṣatrair vindate diśaḥ । ātmanā cātmanaḥ pañca pīḍayann ānupīḍyate ॥23॥
[चरन् (caran) - while moving; मार्गान् (mārgān) - the paths; विजानाति (vijānāti) - one knows; नक्षत्रैः (nakṣatraiḥ) - by the stars; विन्दते (vindate) - one finds; दिशः (diśaḥ) - the directions; आत्मना (ātmanā) - by oneself; च (ca) - and; आत्मनः (ātmanaḥ) - of oneself; पञ्च (pañca) - the five (senses); पीडयन् (pīḍayan) - suppressing; न (na) - not; अनुपीड्यते (anupīḍyate) - is afflicted;]
While moving, one discerns the path and finds directions by the stars; suppressing one’s five senses, one is not afflicted.
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् । पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥१-१३३-२४॥
anuśiṣṭvā anugatvā ca kṛtvā cainān pradakṣiṇam । pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān ॥24॥
[अनुशिष्ट्वा (anuśiṣṭvā) - having instructed; अनुगत्वा (anugatvā) - having followed; च (ca) - and; कृत्वा (kṛtvā) - having done; च (ca) - and; एनान् (enān) - them; प्रदक्षिणम् (pradakṣiṇam) - circumambulation; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; अभ्यनुज्ञाय (abhyanujñāya) - having permitted; विदुरः (viduraḥ) - Vidura; प्रययौ (prayayau) - went; गृहान् (gṛhān) - to home;]
Having instructed and followed them, and having circumambulated the Pāṇḍavas, Vidura gave his permission and returned home.
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा । अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥१-१३३-२५॥
nivṛtte vidure caiva bhīṣme paurajane tathā । ajātaśatrum āmantrya kuntī vacanam abravīt ॥25॥
[निवृत्ते (nivṛtte) - having departed; विदुरे (vidure) - Vidura; च (ca) - and; एव (eva) - also; भीष्मे (bhīṣme) - Bhīṣma; पौर-जने (paura-jane) - the citizens; तथा (tathā) - likewise; अजातशत्रुम् (ajātaśatrum) - Ajātaśatru (Yudhiṣṭhira); आमन्त्र्य (āmantrya) - addressing; कुन्ती (kuntī) - Kuntī; वचनम् (vacanam) - words; अब्रवीत् (abravīt) - spoke;]
When Vidura, Bhīṣma, and the citizens had departed, Kuntī spoke to Yudhiṣṭhira, addressing him as Ajātaśatru.
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव । त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ॥१-१३३-२६॥
kṣattā yad abravīd vākyaṁ janamadhye'bruvann iva । tvayā ca tat tathety ukto jānīmo na ca tad vayam ॥26॥
[क्षत्ता (kṣattā) - the minister (Vidura); यत् (yat) - what; अब्रवीत् (abravīt) - said; वाक्यम् (vākyam) - words; जनमध्ये (janamadhye) - in the midst of people; अब्रुवन् इव (abruvan iva) - as if not speaking plainly; त्वया (tvayā) - by you; च (ca) - and; तत् (tat) - that; तथा (tathā) - so; इत्युक्तः (ity uktaḥ) - said; जानीमः (jānīmaḥ) - we know; न (na) - not; च (ca) - and; तत् (tat) - that; वयम् (vayam) - we;]
What the minister said among the people was as if not plainly spoken, and though you agreed, we do not understand it.
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् । श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥१-१३३-२७॥
yadi tac chakyam asmābhiḥ śrotuṁ na ca sadoṣavat । śrotum icchāmi tat sarvaṁ saṁvādaṁ tava tasya ca ॥27॥
[यदि (yadi) - if; तत् (tat) - that; शक्यम् (śakyam) - possible; अस्माभिः (asmābhiḥ) - by us; श्रोतुम् (śrotum) - to hear; न (na) - not; च (ca) - and; सदोषवत् (sadoṣavat) - with fault; श्रोतुम् (śrotum) - to hear; इच्छामि (icchāmi) - I desire; तत् (tat) - that; सर्वम् (sarvam) - all; संवादम् (saṁvādam) - conversation; तव (tava) - of you; तस्य (tasya) - of him; च (ca) - and;]
If it is possible for us to hear and not inappropriate, I wish to hear all that conversation between you and him.
युधिष्ठिर उवाच॥
yudhiṣṭhira uvāca॥
[युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; उवाच (uvāca) - said;]
Yudhiṣṭhira said:
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् । पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ॥१-१३३-२८॥
viṣād agneś ca boddhavyam iti māṁ viduro'bravīt । panthāś ca vo nāviditaḥ kaścit syād iti cābravīt ॥28॥
[विषात् (viṣāt) - from poison; अग्नेः (agneḥ) - from fire; च (ca) - and; बोद्धव्यम् (boddhavyam) - to be understood; इति (iti) - thus; माम् (mām) - to me; विदुरः (viduraḥ) - Vidura; अब्रवीत् (abravīt) - said; पन्थाः (panthāḥ) - path; च (ca) - and; वः (vaḥ) - for you; न (na) - not; अविदितः (aviditaḥ) - unknown; कश्चित् (kaścit) - any; स्यात् (syāt) - may be; इति (iti) - thus; च (ca) - and; अब्रवीत् (abravīt) - he said;]
Vidura told me, "Be aware of poison and fire" and said, "No path shall be unknown to you."
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् । विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ॥१-१३३-२९॥
jitendriyaś ca vasudhāṁ prāpsyasīti ca mābravīt । vijñātam iti tat sarvam ity ukto viduro mayā ॥29॥
[जितेन्द्रियः (jitendriyaḥ) - one who has conquered the senses; च (ca) - and; वसुधाम् (vasudhām) - the earth; प्राप्स्यसि (prāpsyasi) - you shall obtain; इति (iti) - thus; च (ca) - and; माम् (mām) - to me; अब्रवीत् (abravīt) - he said; विज्ञातम् (vijñātam) - understood; इति (iti) - thus; तत् (tat) - that; सर्वम् (sarvam) - all; इति (iti) - thus; उक्तः (uktaḥ) - spoken; विदुरः (viduraḥ) - Vidura; मया (mayā) - by me;]
He told me, "You who have conquered your senses will obtain the earth." I said to Vidura, "All this is understood."
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते । वारणावतमासाद्य ददृशुर्नागरं जनम् ॥१-१३३-३०॥
aṣṭame'hani rohiṇyāṁ prayātāḥ phalgunasya te । vāraṇāvatam āsādya dadṛśur nāgaraṁ janam ॥30॥
[अष्टमे (aṣṭame) - on the eighth; अहनि (ahani) - day; रोहिण्याम् (rohiṇyām) - under Rohiṇī (constellation); प्रयाताः (prayātāḥ) - they departed; फल्गुनस्य (phalgunasya) - of Phālguna (month); ते (te) - they; वारणावतम् (vāraṇāvatam) - Vāraṇāvata; आसाद्य (āsādya) - reaching; ददृशुः (dadṛśuḥ) - they saw; नागरम् (nāgaram) - the city; जनम् (janam) - people;]
On the eighth day under the Rohiṇī constellation of the month Phālguna, they departed and, reaching Vāraṇāvata, saw the city’s people.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.