01.164
Library: Brings up Vashishtha to highlight superiority of Brahmanas, and asks Arjuna to appoint a Brahmana.
वैशम्पायन उवाच॥
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ। अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥१-१६४-१॥
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः। जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥१-१६४-२॥
वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम्। एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥१-१६४-३॥
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः। आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥१-१६४-४॥
गन्धर्व उवाच॥
तपसा निर्जितौ शश्वदजेयावमरैरपि। कामक्रोधावुभौ यस्य चरणौ संववाहतुः ॥१-१६४-५॥
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः। विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥१-१६४-६॥
पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः। विश्वामित्रविनाशाय न मेने कर्म दारुणम् ॥१-१६४-७॥
मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात्। कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥१-१६४-८॥
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः। इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥१-१६४-९॥
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम्। ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ॥१-१६४-१०॥
स हि तान्याजयामास सर्वान्नृपतिसत्तमान्। ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥१-१६४-११॥
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः। ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ॥१-१६४-१२॥
क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता। पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥१-१६४-१३॥
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम्। तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ॥१-१६४-१४॥