Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.165
Library: Story of Vashishtha and Vishwamitra.
अर्जुन उवाच॥
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः। वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ॥१-१६५-१॥
गन्धर्व उवाच॥
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते। पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥१-१६५-२॥
कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ। गाधीति विश्रुतो लोके सत्यधर्मपरायणः ॥१-१६५-३॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः। विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥१-१६५-४॥
स चचार सहामात्यो मृगयां गहने वने। मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥१-१६५-५॥
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः। आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥१-१६५-६॥
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः। विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥१-१६५-७॥
पाद्यार्घ्याचमनीयेन स्वागतेन च भारत। तथैव प्रतिजग्राह वन्येन हविषा तथा ॥१-१६५-८॥
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः। उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥१-१६५-९॥
ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च। षड्रसं चामृतरसं रसायनमनुत्तमम् ॥१-१६५-१०॥
भोजनीयानि पेयानि भक्ष्याणि विविधानि च। लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ॥१-१६५-११॥
तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः। सामात्यः सबलश्चैव तुतोष स भृशं नृपः ॥१-१६५-१२॥
षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम्। मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ॥१-१६५-१३॥
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम्। पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ॥१-१६५-१४॥
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम्। अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ॥१-१६५-१५॥
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः। नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ॥१-१६५-१६॥
वसिष्ठ उवाच॥
देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी। अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥१-१६५-१७॥
विश्वामित्र उवाच॥
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः। ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ॥१-१६५-१८॥
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम्। स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥१-१६५-१९॥
वसिष्ठ उवाच॥
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः। यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ॥१-१६५-२०॥
गन्धर्व उवाच॥
एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव। हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥१-१६५-२१॥
कशादण्डप्रतिहता काल्यमाना ततस्ततः। हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ॥१-१६५-२२॥
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी। भृशं च ताड्यमानापि न जगामाश्रमात्ततः ॥१-१६५-२३॥
वसिष्ठ उवाच॥
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः। बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ॥१-१६५-२४॥
गन्धर्व उवाच॥
सा तु तेषां बलान्नन्दी बलानां भरतर्षभ। विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥१-१६५-२५॥
गौरुवाच॥
पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत्। विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥१-१६५-२६॥
गन्धर्व उवाच॥
एवं तस्यां तदा पर्थ धर्षितायां महामुनिः। न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ॥१-१६५-२७॥
वसिष्ठ उवाच॥
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्। क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ॥१-१६५-२८॥
गौरुवाच॥
किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे। अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ॥१-१६५-२९॥
वसिष्ठ उवाच॥
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते। दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥१-१६५-३०॥
गन्धर्व उवाच॥
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी। ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ॥१-१६५-३१॥
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना। विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥१-१६५-३२॥
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः। क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥१-१६५-३३॥
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ। अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥१-१६५-३४॥
असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान्। मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ॥१-१६५-३५॥
पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा। तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ॥१-१६५-३६॥
तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा। नानावरणसञ्छन्नैर्नानायुधधरैस्तथा ॥ अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ॥१-१६५-३७॥
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः। अस्त्रवर्षेण महता काल्यमानं बलं ततः ॥ प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥१-१६५-३८॥
न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा। विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥१-१६५-३९॥
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम्। क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ॥१-१६५-४०॥
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा। विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ॥१-१६५-४१॥
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्। बलाबलं विनिश्चित्य तप एव परं बलम् ॥१-१६५-४२॥
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम्। भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ॥१-१६५-४३॥
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा। तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ॥ अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ॥१-१६५-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.