01.163
Library: King spends 12 years with Tapati bringing draught to the kingdom.
वसिष्ठ उवाच॥
यैषा ते तपती नाम सावित्र्यवरजा सुता। तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥१-१६३-१॥
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः। युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ॥१-१६३-२॥
गन्धर्व उवाच॥
इत्युक्तः सविता तेन ददानीत्येव निश्चितः। प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥१-१६३-३॥
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने। तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥१-१६३-४॥
ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम्। ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥ प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ॥१-१६३-५॥
वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह। यत्र विख्यतकीर्तिः स कुरूणामृषभोऽभवत् ॥१-१६३-६॥
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना। दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ॥ वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥१-१६३-७॥
कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते। आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥१-१६३-८॥
तपसाराध्य वरदं देवं गोपतिमीश्वरम्। लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥१-१६३-९॥
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते। जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥१-१६३-१०॥
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे। सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥१-१६३-११॥
ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च। आदिदेश महीपालस्तमेव सचिवं तदा ॥१-१६३-१२॥
नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे। सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ॥१-१६३-१३॥
ततो द्वादश वर्षाणि काननेषु जलेषु च। रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥१-१६३-१४॥
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः। न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ॥१-१६३-१५॥
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः। अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥१-१६३-१६॥
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः। अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ॥१-१६३-१७॥
तं च पार्थिवशार्दूलमानयामास तत्पुरम्। तपत्या सहितं राजन्नुषितं द्वादशीः समाः ॥१-१६३-१८॥
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा। तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ॥१-१६३-१९॥
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा। तेन पार्थिवमुख्येन भावितं भावितात्मना ॥१-१६३-२०॥
ततो द्वादश वर्षाणि पुनरीजे नराधिपः। पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ॥१-१६३-२१॥
एवमासीन्महाभागा तपती नाम पौर्विकी। तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥१-१६३-२२॥
तस्यां सञ्जनयामास कुरुं संवरणो नृपः। तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥१-१६३-२३॥