01.173
Library: Cursed by Brahmin's wife Kalmashapada asks sage Vasishtha to procreate.
अर्जुन उवाच॥
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे। कारणं किं पुरस्कृत्य भार्या वै संनियोजिता ॥१-१७३-१॥
जानता च परं धर्मं लोक्यं तेन महात्मना। अगम्यागमनं कस्माद्वसिष्ठेन महात्मना ॥ कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ॥१-१७३-२॥
गन्धर्व उवाच॥
धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि। वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ॥१-१७३-३॥
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः। शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥१-१७३-४॥
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः। निर्जगाम पुराद्राजा सहदारः परन्तपः ॥१-१७३-५॥
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे। नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् ॥१-१७३-६॥
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम्। अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ॥१-१७३-७॥
स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः। ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे ॥ ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ ॥
तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ। तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ॥१-१७३-९॥
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत। शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ॥१-१७३-१०॥
आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः। अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ॥१-१७३-११॥
शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि। ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता ॥१-१७३-१२॥
अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान्। प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् ॥१-१७३-१३॥
एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत्। भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ॥१-१७३-१४॥
तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि। सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ॥१-१७३-१५॥
ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता। कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ॥१-१७३-१६॥
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत्। प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ॥१-१७३-१७॥
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः। पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ॥१-१७३-१८॥
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः। तेन सङ्गम्य ते भार्या तनयं जनयिष्यति ॥ स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥१-१७३-१९॥
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा। तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ॥१-१७३-२०॥
वसिष्ठश्च महाभागः सर्वमेतदपश्यत। ज्ञानयोगेन महता तपसा च परन्तप ॥१-१७३-२१॥
मुक्तशापश्च राजर्षिः कालेन महता ततः। ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥१-१७३-२२॥
न हि सस्मार नृपतिस्तं शापं शापमोहितः। देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ॥ तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ॥१-१७३-२३॥
एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत्। स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ॥१-१७३-२४॥