01.174
Pancharatra: Pandavas obtain Devala's son Daumya as preceptor
अर्जुन उवाच॥
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित्। पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥१-१७४-१॥
गन्धर्व उवाच॥
यवीयान्देवलस्यैष वने भ्राता तपस्यति। धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ॥१-१७४-२॥
वैशम्पायन उवाच॥
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि। गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् ॥१-१७४-३॥
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम। कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ॥१-१७४-४॥
तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह। रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे ॥१-१७४-५॥
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते। तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥१-१७४-६॥
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः। पाद्येन फलमूलेन पौरोहित्येन चैव ह ॥१-१७४-७॥
ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः। तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ॥१-१७४-८॥
मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा। नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥१-१७४-९॥
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः। तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः ॥१-१७४-१०॥
वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः। बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् ॥१-१७४-११॥
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः। मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥१-१७४-१२॥