05.076
अर्जुन उवाच॥
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन। तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप ॥५-७६-१॥
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो। लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ॥५-७६-२॥
अफलं मन्यसे चापि पुरुषस्य पराक्रमम्। न चान्तरेण कर्माणि पौरुषेण फलोदयः ॥५-७६-३॥
तदिदं भाषितं वाक्यं तथा च न तथैव च। न चैतदेवं द्रष्टव्यमसाध्यमिति किञ्चन ॥५-७६-४॥
किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः। कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ॥५-७६-५॥
सम्पाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो। स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ॥५-७६-६॥
पाण्डवानां कुरूणां च भवान्परमकः सुहृत्। सुराणामसुराणां च यथा वीर प्रजापतिः ॥५-७६-७॥
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम्। अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम् ॥५-७६-८॥
एवं चेत्कार्यतामेति कार्यं तव जनार्दन। गमनादेवमेव त्वं करिष्यसि न संशयः ॥५-७६-९॥
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि। भविष्यति तथा सर्वं यथा तव चिकीर्षितम् ॥५-७६-१०॥
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम्। विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ॥५-७६-११॥
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः। येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता ॥५-७६-१२॥
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन। उपायेन नृशंसेन हृता दुर्द्यूतदेविना ॥५-७६-१३॥
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः। समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ॥५-७६-१४॥
अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा। वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ॥५-७६-१५॥
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि। क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा ॥५-७६-१६॥
अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम्। तदेव क्रियतामाशु न विचार्यमतस्त्वया ॥५-७६-१७॥
जानासि हि यथा तेन द्रौपदी पापबुद्धिना। परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम् ॥५-७६-१८॥
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव। न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे ॥५-७६-१९॥
तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम्। तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ॥५-७६-२०॥