05.075
भगवानुवाच॥
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम्। न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ॥५-७५-१॥
वेदाहं तव माहात्म्यमुत ते वेद यद्बलम्। उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ॥५-७५-२॥
यथा चात्मनि कल्याणं सम्भावयसि पाण्डव। सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् ॥५-७५-३॥
यादृशे च कुले जन्म सर्वराजाभिपूजिते। बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ॥५-७५-४॥
जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर। पर्यायं न व्यवस्यन्ति दैवमानुषयोर्जनाः ॥५-७५-५॥
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु। विनाशेऽपि स एवास्य संदिग्धं कर्म पौरुषम् ॥५-७५-६॥
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः। अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥५-७५-७॥
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम्। कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते ॥५-७५-८॥
दैवमप्यकृतं कर्म पौरुषेण विहन्यते। शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ॥५-७५-९॥
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयङ्कृतम्। तस्मादनवरोधश्च विद्यते तत्र लक्षणम् ॥५-७५-१०॥
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः। एवम्बुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात् ॥५-७५-११॥
य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते। नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते ॥५-७५-१२॥
तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता। नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संयुगे ॥५-७५-१३॥
नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये। विषादमर्छेद्ग्लानिं वा एतदर्थं ब्रवीमि ते ॥५-७५-१४॥
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव। यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ॥५-७५-१५॥
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम। भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् ॥५-७५-१६॥
ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः। कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति ॥५-७५-१७॥
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः। धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः ॥५-७५-१८॥
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति। धनञ्जयस्यैष कामो न हि युद्धं न कामये ॥५-७५-१९॥
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव। तुदन्नक्लीबया वाचा तेजस्ते समदीपयम् ॥५-७५-२०॥