Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.077
भगवानुवाच॥
एवमेतन्महाबाहो यथा वदसि पाण्डव। सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः ॥५-७७-१॥
क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम्। ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम् ॥५-७७-२॥
तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम्। तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ॥५-७७-३॥
तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः। दैवे च मानुषे चैव संयुक्तं लोककारणम् ॥५-७७-४॥
अहं हि तत्करिष्यामि परं पुरुषकारतः। दैवं तु न मया शक्यं कर्म कर्तुं कथञ्चन ॥५-७७-५॥
स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः। न हि सन्तप्यते तेन तथारूपेण कर्मणा ॥५-७७-६॥
तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः। शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ॥५-७७-७॥
स हि त्यागेन राज्यस्य न शमं समुपेष्यति। अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः ॥५-७७-८॥
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट्। याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः ॥५-७७-९॥
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम्। उक्तं प्रयोजनं तत्र धर्मराजेन भारत ॥५-७७-१०॥
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः। तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति ॥५-७७-११॥
मम चापि स वध्यो वै जगतश्चापि भारत। येन कौमारके यूयं सर्वे विप्रकृतास्तथा ॥५-७७-१२॥
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना। न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ॥५-७७-१३॥
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः। न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् ॥५-७७-१४॥
जानासि हि महाबाहो त्वमप्यस्य परं मतम्। प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ॥५-७७-१५॥
स जानंस्तस्य चात्मानं मम चैव परं मतम्। अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे ॥५-७७-१६॥
यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया। विधानविहितं पार्थ कथं शर्म भवेत्परैः ॥५-७७-१७॥
यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव। करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ॥५-७७-१८॥
कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम्। याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि ॥५-७७-१९॥
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया। लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ॥५-७७-२०॥
सर्वथा तु मया कार्यं धर्मराजस्य शासनम्। विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ॥५-७७-२१॥