Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.097
नारद उवाच॥
एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम्। पातालमिति विख्यातं दैत्यदानवसेवितम् ॥५-९७-१॥
इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः। प्रविशन्तो महानादं नदन्ति भयपीडिताः ॥५-९७-२॥
अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः। व्यापारेण धृतात्मानं निबद्धं समबुध्यत ॥५-९७-३॥
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः। अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ॥५-९७-४॥
अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि। उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत् ॥५-९७-५॥
यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः। तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम् ॥५-९७-६॥
ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः। मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ॥५-९७-७॥
अत्र नानाविधाकारास्तिमयो नैकरूपिणः। अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ॥५-९७-८॥
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः। मृता दिवसतः सूत पुनर्जीवन्ति ते निशि ॥५-९७-९॥
उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः। अमृतं स्पृश्य संस्पर्शात्सञ्जीवयति देहिनः ॥५-९७-१०॥
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः। दैतेया निवसन्ति स्म वासवेन हृतश्रियः ॥५-९७-११॥
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः। भूतये सर्वभूतानामचरत्तप उत्तमम् ॥५-९७-१२॥
अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः। त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ॥५-९७-१३॥
यत्रतत्रशयो नित्यं येनकेनचिदाशितः। येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ॥५-९७-१४॥
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः। प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ॥५-९७-१५॥
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः। वरयिष्याव तं गत्वा यत्नमास्थाय मातले ॥५-९७-१६॥
अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया। आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ॥५-९७-१७॥
नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै। पितरं मातरं वापि नास्य जानाति कश्चन ॥५-९७-१८॥
अतः किल महानग्निरन्तकाले समुत्थितः। धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ॥५-९७-१९॥
कण्व उवाच॥
मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम्। न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ॥५-९७-२०॥