Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.098
नारद उवाच॥
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत्। दैत्यानां दानवानां च मायाशतविचारिणाम् ॥५-९८-१॥
अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा। मयेन मनसा सृष्टं पातालतलमाश्रितम् ॥५-९८-२॥
अत्र मायासहस्राणि विकुर्वाणा महौजसः। दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ॥५-९८-३॥
नैते शक्रेण नान्येन वरुणेन यमेन वा। शक्यन्ते वशमानेतुं तथैव धनदेन च ॥५-९८-४॥
असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः। नैरृता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये ॥५-९८-५॥
दंष्ट्रिणो भीमरूपाश्च निवसन्त्यात्मरक्षिणः। मायावीर्योपसम्पन्ना निवसन्त्यात्मरक्षिणः ॥५-९८-६॥
निवातकवचा नाम दानवा युद्धदुर्मदाः। जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम् ॥५-९८-७॥
बहुशो मातले त्वं च तव पुत्रश्च गोमुखः। निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ॥५-९८-८॥
पश्य वेश्मानि रौक्माणि मातले राजतानि च। कर्मणा विधियुक्तेन युक्तान्युपगतानि च ॥५-९८-९॥
वैडूर्यहरितानीव प्रवालरुचिराणि च। अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च ॥५-९८-१०॥
पार्थिवानीव चाभान्ति पुनर्नगमयानि च। शैलानीव च दृश्यन्ते तारकाणीव चाप्युत ॥५-९८-११॥
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च। मणिजालविचित्राणि प्रांशूनि निबिडानि च ॥५-९८-१२॥
नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा। गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ॥५-९८-१३॥
आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत। रत्नवन्ति महार्हाणि भाजनान्यासनानि च ॥५-९८-१४॥
जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान्। कामपुष्पफलांश्चैव पादपान्कामचारिणः ॥५-९८-१५॥
मातले कश्चिदत्रापि रुचितस्ते वरो भवेत्। अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे ॥५-९८-१६॥
कण्व उवाच॥
मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम्। देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् ॥५-९८-१७॥
नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः। अरिपक्षेण सम्बन्धं रोचयिष्याम्यहं कथम् ॥५-९८-१८॥
अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान्। जानामि तु तथात्मानं दित्सात्मकमलं यथा ॥५-९८-१९॥