05.096
कण्व उवाच॥
मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा। वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ॥५-९६-१॥
नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः। स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः ॥५-९६-२॥
मातलिर्नारदेनैवं सम्पृष्टः पथि गच्छता। यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति ॥५-९६-३॥
तमुवाचाथ स मुनिर्गच्छावः सहिताविति। सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ॥५-९६-४॥
अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम्। दृष्ट्वा तत्र वरं कञ्चिद्रोचयिष्याव मातले ॥५-९६-५॥
अवगाह्य ततो भूमिमुभौ मातलिनारदौ। ददृशाते महात्मानौ लोकपालमपां पतिम् ॥५-९६-६॥
तत्र देवर्षिसदृशीं पूजां प्राप स नारदः। महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ॥५-९६-७॥
तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह। वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ॥५-९६-८॥
नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम्। जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ॥५-९६-९॥
नारद उवाच॥
दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः। पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ॥५-९६-१०॥
एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः। एष तं शीलवृत्तेन शौचेन च विशिष्यते ॥५-९६-११॥
एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः। रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ॥५-९६-१२॥
ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम्। आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः ॥५-९६-१३॥
भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम्। यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥५-९६-१४॥
एतानि हृतराज्यानां दैतेयानां स्म मातले। दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ॥५-९६-१५॥
अक्षयाणि किलैतानि विवर्तन्ते स्म मातले। अनुभावप्रयुक्तानि सुरैरवजितानि ह ॥५-९६-१६॥
अत्र राक्षसजात्यश्च भूतजात्यश्च मातले। दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ॥५-९६-१७॥
अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे। वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ॥५-९६-१८॥
एष गाण्डीमयश्चापो लोकसंहारसम्भृतः। रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ॥५-९६-१९॥
एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम्। सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवम् ॥५-९६-२०॥
अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु। सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना ॥५-९६-२१॥
एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम्। पुत्राः सलिलराजस्य धारयन्ति महोदयम् ॥५-९६-२२॥
एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम्। सर्वतः सलिलं शीतं जीमूत इव वर्षति ॥५-९६-२३॥
एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम्। तमसा मूर्छितं याति येन नार्छति दर्शनम् ॥५-९६-२४॥
बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले। तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम् ॥५-९६-२५॥