Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.100
नारद उवाच॥
इदं रसातलं नाम सप्तमं पृथिवीतलम्। यत्रास्ते सुरभिर्माता गवाममृतसम्भवा ॥५-१००-१॥
क्षरन्ती सततं क्षीरं पृथिवीसारसम्भवम्। षण्णां रसानां सारेण रसमेकमनुत्तमम् ॥५-१००-२॥
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा। पितामहस्य वदनादुदतिष्ठदनिन्दिता ॥५-१००-३॥
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले। ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् ॥५-१००-४॥
पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम्। पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ॥५-१००-५॥
फेनपा नाम नाम्ना ते फेनाहाराश्च मातले। उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥५-१००-६॥
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले। निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः ॥५-१००-७॥
पूर्वां दिशं धारयते सुरूपा नाम सौरभी। दक्षिणां हंसका नाम धारयत्यपरां दिशम् ॥५-१००-८॥
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया। महानुभावया नित्यं मातले विश्वरूपया ॥५-१००-९॥
सर्वकामदुघा नाम धेनुर्धारयते दिशम्। उत्तरां मातले धर्म्यां तथैलविलसञ्ज्ञिताम् ॥५-१००-१०॥
आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे। मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ॥५-१००-११॥
उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले। उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ॥५-१००-१२॥
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्। अमृतं चामृताशेषु सुरभिः क्षरते पयः ॥५-१००-१३॥
अत्र गाथा पुरा गीता रसातलनिवासिभिः। पौराणी श्रूयते लोके गीयते या मनीषिभिः ॥५-१००-१४॥
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे। परिवासः सुखस्तादृग्रसातलतले यथा ॥५-१००-१५॥