05.099
नारद उवाच॥
अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम्। विक्रमे गमने भारे नैषामस्ति परिश्रमः ॥५-९९-१॥
वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम्। सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ॥५-९९-२॥
सुरूपपक्षिराजेन सुबलेन च मातले। वर्धितानि प्रसूत्या वै विनताकुलकर्तृभिः ॥५-९९-३॥
पक्षिराजाभिजात्यानां सहस्राणि शतानि च। कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ॥५-९९-४॥
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः। सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ॥५-९९-५॥
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः। ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै ॥५-९९-६॥
नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु। मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ॥५-९९-७॥
दैवतं विष्णुरेतेषां विष्णुरेव परायणम्। हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा ॥५-९९-८॥
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः। अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली ॥५-९९-९॥
काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः। वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा ॥५-९९-१०॥
त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा। दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः ॥५-९९-११॥
सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः। मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः ॥५-९९-१२॥
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः। विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा ॥५-९९-१३॥
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च। मलयो मातरिश्वा च निशाकरदिवाकरौ ॥५-९९-१४॥
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः। प्राधान्यतोऽथ यशसा कीर्तिताः प्राणतश्च ते ॥५-९९-१५॥
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले। तं नयिष्यामि देशं त्वां रुचिं यत्रोपलप्स्यसे ॥५-९९-१६॥