Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.101
नारद उवाच॥
इयं भोगवती नाम पुरी वासुकिपालिता। यादृशी देवराजस्य पुरीवर्यामरावती ॥५-१०१-१॥
एष शेषः स्थितो नागो येनेयं धार्यते सदा। तपसा लोकमुख्येन प्रभावमहता मही ॥५-१०१-२॥
श्वेतोच्चयनिभाकारो नानाविधविभूषणः। सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ॥५-१०१-३॥
इह नानाविधाकारा नानाविधविभूषणाः। सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥५-१०१-४॥
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः। सहस्रसङ्ख्या बलिनः सर्वे रौद्राः स्वभावतः ॥५-१०१-५॥
सहस्रशिरसः केचित्केचित्पञ्चशताननाः। शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च ॥५-१०१-६॥
द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा। महाभोगा महाकायाः पर्वताभोगभोगिनः ॥५-१०१-७॥
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु ॥५-१०१-८॥
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ। कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ॥५-१०१-९॥
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः। वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥५-१०१-१०॥
आर्यको नन्दकश्चैव तथा कलशपोतकौ। कैलासकः पिञ्जरको नागश्चैरावतस्तथा ॥५-१०१-११॥
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ। आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा ॥५-१०१-१२॥
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः। द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥५-१०१-१३॥
करवीरः पीठरकः संवृत्तो वृत्त एव च। पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥५-१०१-१४॥
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः। कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा ॥५-१०१-१५॥
विरजा धारणश्चैव सुबाहुर्मुखरो जयः। बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा ॥५-१०१-१६॥
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः। मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ॥५-१०१-१७॥
कण्व उवाच॥
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै। पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥५-१०१-१८॥
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च। द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ॥५-१०१-१९॥
कः पिता जननी चास्य कतमस्यैष भोगिनः। वंशस्य कस्यैष महान्केतुभूत इव स्थितः ॥५-१०१-२०॥
प्रणिधानेन धैर्येण रूपेण वयसा च मे। मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥५-१०१-२१॥
मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात्। निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥५-१०१-२२॥
ऐरावतकुले जातः सुमुखो नाम नागराट्। आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ॥५-१०१-२३॥
एतस्य हि पिता नागश्चिकुरो नाम मातले। नचिराद्वैनतेयेन पञ्चत्वमुपपादितः ॥५-१०१-२४॥
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः। एष मे रुचितस्तात जामाता भुजगोत्तमः ॥५-१०१-२५॥
क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै। अस्य नागपतेर्दातुं प्रियां दुहितरं मुने ॥५-१०१-२६॥