Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.114
नारद उवाच॥
हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः। दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः ॥५-११४-१॥
उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु। गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु ॥५-११४-२॥
बहुदेवासुरालोका बहुगन्धर्वदर्शना। बहुलक्षणसम्पन्ना बहुप्रसवधारिणी ॥५-११४-३॥
समर्थेयं जनयितुं चक्रवर्तिनमात्मजम्। ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ॥५-११४-४॥
गालव उवाच॥
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे। हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् ॥५-११४-५॥
ततस्तव भवित्रीयं पुत्राणां जननी शुभा। अरणीव हुताशानां योनिरायतलोचना ॥५-११४-६॥
नारद उवाच॥
एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः। उवाच गालवं दीनो राजर्षिरृषिसत्तमम् ॥५-११४-७॥
द्वे मे शते संनिहिते हयानां यद्विधास्तव। एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ॥५-११४-८॥
सोऽहमेकमपत्यं वै जनयिष्यामि गालव। अस्यामेतं भवान्कामं सम्पादयतु मे वरम् ॥५-११४-९॥
एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत्। मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना ॥५-११४-१०॥
प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि। स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ॥५-११४-११॥
नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै। भविष्यन्ति तथा पुत्रा मम चत्वार एव च ॥५-११४-१२॥
क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम। एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ॥५-११४-१३॥
एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा। हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ॥५-११४-१४॥
इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम्। चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् ॥५-११४-१५॥
प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च। समये देशकाले च लब्धवान्सुतमीप्सितम् ॥५-११४-१६॥
ततो वसुमना नाम वसुभ्यो वसुमत्तरः। वसुप्रख्यो नरपतिः स बभूव वसुप्रदः ॥५-११४-१७॥
अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः। उपसङ्गम्य चोवाच हर्यश्वं प्रीतिमानसम् ॥५-११४-१८॥
जातो नृप सुतस्तेऽयं बालभास्करसंनिभः। कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् ॥५-११४-१९॥
हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे। दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ॥५-११४-२०॥
माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम्। कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् ॥५-११४-२१॥
त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः। प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ॥५-११४-२२॥