05.113
नारद उवाच॥
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्। विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥५-११३-१॥
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः। ययातिर्वत्सकाशीश इदं वचनमब्रवीत् ॥५-११३-२॥
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम्। निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥५-११३-३॥
अतीत्य च नृपानन्यानादित्यकुलसम्भवान्। मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च ॥५-११३-४॥
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्। अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ ॥५-११३-५॥
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा। न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे ॥५-११३-६॥
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग। न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे ॥५-११३-७॥
तत्तु दास्यामि यत्कार्यमिदं सम्पादयिष्यति। अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥५-११३-८॥
नातः परं वैनतेय किञ्चित्पापिष्ठमुच्यते। यथाशानाशनं लोके देहि नास्तीति वा वचः ॥५-११३-९॥
हताशो ह्यकृतार्थः सन्हतः सम्भावितो नरः। हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् ॥५-११३-१०॥
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम। इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ॥५-११३-११॥
सदा देवमनुष्याणामसुराणां च गालव। काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥५-११३-१२॥
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम्। किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥५-११३-१३॥
स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम्। अहं दौहित्रवान्स्यां वै वर एष मम प्रभो ॥५-११३-१४॥
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा। पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥५-११३-१५॥
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः। उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥५-११३-१६॥
गते पतगराजे तु गालवः सह कन्यया। चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ॥५-११३-१७॥
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्। अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥५-११३-१८॥
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम्। प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥५-११३-१९॥
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्। कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥५-११३-२०॥
इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम्। शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ॥५-११३-२१॥