Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.115
गालव उवाच॥
gālava uvāca॥
[गालव (gālava) - Gālava; उवाच (uvāca) - said;]
Gālava said:
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः। दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ॥५-११५-१॥
mahāvīryō mahīpālaḥ kāśīnāmīśvaraḥ prabhuḥ। divōdāsa iti khyātō bhaimasēnirnarādhipaḥ ॥5-115-1॥
[महावीर्यः (mahāvīryaḥ) - great in strength; महीपालः (mahīpālaḥ) - king; काशीनाम् ईश्वरः (kāśīnām īśvaraḥ) - lord of the Kashi people; प्रभुः (prabhuḥ) - mighty; दिवोदासः इति (divōdāsaḥ iti) - named Divodasa; ख्यातः (khyātaḥ) - well-known; भैमसेनि: (bhaimasēni:) - the son of Bhimasena; नराधिपः (narādhipaḥ) - ruler of men;]
The mighty king, lord of the Kashi people, renowned as Divodasa, the son of Bhimasena and ruler of men. (5-115-1)
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः। धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः ॥५-११५-२॥
tatra gacchāvahē bhadrē śanairāgaccha mā śucaḥ। dhārmikaḥ saṁyamē yuktaḥ satyaścaiva janēśvaraḥ ॥5-115-2॥
[तत्र (tatra) - there; गच्छावहे (gacchāvahē) - let us go; भद्रे (bhadrē) - dear lady; शनैः (śanaiḥ) - slowly; आगच्छ (āgaccha) - come; मा (mā) - do not; शुचः (śucaḥ) - worry; धार्मिकः (dhārmikaḥ) - righteous; संयमे युक्तः (saṁyamē yuktaḥ) - endowed with self-control; सत्यम् च (satyam ca) - and truthful; एव (ēva) - indeed; जनेश्वरः (janēśvaraḥ) - the lord of men;]
Let us go there, dear lady, come slowly and do not worry. He is righteous, endowed with self-control, and indeed truthful—the lord of men. (5-115-2)
नारद उवाच॥
nārada uvāca॥
[नारद उवाच (nārada uvāca) - Nārada said;]
Nārada said:
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः। गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ॥५-११५-३॥
tamupāgamya sa munirnyāyatastēna satkr̥taḥ। gālavaḥ prasavasyārthē taṁ nr̥paṁ pratyacōdayat ॥5-115-3॥
[तम् (tam) - him; उपागम्य (upāgamya) - approaching; सः (saḥ) - he; मुनिः (muniḥ) - the sage; न्यायतः (nyāyataḥ) - properly; तेन (tēna) - by him; सत्कृतः (satkr̥taḥ) - honored; गालवः (gālavaḥ) - Gālava; प्रसवस्य अर्थे (prasavasya arthē) - for the purpose of offspring; तम् नृपम् (tam nr̥pam) - that king; प्रत्यचोदयत् (pratyacōdayat) - urged;]
Having approached him, the sage—properly honored by him—Gālava urged that king for the purpose of offspring. (5-115-3)
दिवोदास उवाच॥
divōdāsa uvāca॥
[दिवोदासः (divōdāsaḥ) - Divodāsa; उवाच (uvāca) - said;]
Divodāsa said:
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज। काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम ॥५-११५-४॥
śrutamētanmayā pūrvaṁ kimuktvā vistaraṁ dvija। kāṅkṣitō hi mayaiṣō’rthaḥ śrutvaitaddvijasattama ॥5-115-4॥
[श्रुतम् (śrutam) - heard; एतत् (ētat) - this; मया (mayā) - by me; पूर्वम् (pūrvam) - before; किम् (kim) - what; उक्त्वा (uktvā) - having said; विस्तरम् (vistaram) - in detail; द्विज (dvija) - O Brāhmaṇa; काङ्क्षितः (kāṅkṣitaḥ) - desired; हि (hi) - indeed; मया (mayā) - by me; एषः (ēṣaḥ) - this; अर्थः (arthaḥ) - matter; श्रुत्वा (śrutvā) - having heard; एतत् (ētat) - this; द्विजसत्तम (dvijasattama) - O best of Brāhmaṇas;]
O Brāhmaṇa, I have heard this before; after you explained it in detail, this matter became truly desired by me—having listened to this, O best of Brāhmaṇas, (5-115-4)
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्। मामेवमुपयातोऽसि भावि चैतदसंशयम् ॥५-११५-५॥
ētacca mē bahumataṁ yadutsr̥jya narādhipān। māmēvamupayātō’si bhāvi caitadasaṁśayam ॥5-115-5॥
[एतच्च (ētacca) - and this; मे (mē) - to me; बहुमतम् (bahumatam) - is highly valued; यत् (yat) - that; उत्सृज्य (utsr̥jya) - abandoning; नराधिपान् (narādhipān) - the kings; माम् (mām) - to me; एवम् (ēvam) - in this way; उपयातः (upayātaḥ) - you have come; असि (asi) - you are; भावि च (bhāvi ca) - and it will come to pass; एतत् (ētat) - this; असंशयम् (asaṁśayam) - without doubt;]
And this too I greatly value—that, forsaking the kings, you have come to me in this way; and this will certainly come to pass, without doubt. (5-115-5)
स एव विभवोऽस्माकमश्वानामपि गालव। अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ॥५-११५-६॥
sa ēva vibhavō’smākamaśvānāmapi gālava। ahamapyēkamēvāsyāṁ janayiṣyāmi pārthivam ॥5-115-6॥
[सः (saḥ) - he; एव (ēva) - indeed; विभवः (vibhavaḥ) - the power; अस्माकम् (asmākam) - of us; अश्वानाम् (aśvānām) - of the horses; अपि (api) - also; गालव (gālava) - O Gālava; अहम् (aham) - I; अपि (api) - also; एकम् (ēkam) - one; एव (ēva) - indeed; अस्याम् (asyām) - in this (matter); जनयिष्यामि (janayiṣyāmi) - will produce; पार्थिवम् (pārthivam) - earthly (king);]
O Gālava, that same power is ours as well regarding the horses. I too will bring forth one earthly king in this matter. (5-115-6)
नारद उवाच॥
nārada uvāca॥
[नारद (nārada) - Nārada; उवाच (uvāca) - said;]
Nārada said.
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः। विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् ॥५-११५-७॥
tathētyuktvā dvijaśrēṣṭhaḥ prādātkanyāṁ mahīpatēḥ। vidhipūrvaṁ ca tāṁ rājā kanyāṁ pratigr̥hītavān ॥5-115-7॥
[तथा (tathā) - so; इति (iti) - thus; उक्त्वा (uktvā) - having said; द्विजश्रेष्ठः (dvijaśrēṣṭhaḥ) - the excellent Brahmin; प्रादात् (prādāt) - gave; कन्यां (kanyāṁ) - the maiden; महीपतेः (mahīpatēḥ) - to the king; विधिपूर्वं (vidhipūrvaṁ) - in due form; च (ca) - and; तां (tāṁ) - her; राजा (rājā) - the king; कन्यां (kanyāṁ) - the maiden; प्रतिगृहीतवान् (pratigr̥hītavān) - accepted;]
Having said so, the excellent Brahmin gave the maiden to the king, and the king accepted her according to the proper ritual. (5-115-7)
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः। स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः ॥५-११५-८॥
rēmē sa tasyāṁ rājarṣiḥ prabhāvatyāṁ yathā raviḥ। svāhāyāṁ ca yathā vahniryathā śacyāṁ sa vāsavaḥ ॥5-115-8॥
[रेमे (rēmē) - enjoyed; सः (saḥ) - he; तस्याम् (tasyām) - with her; राजर्षिः (rājarṣiḥ) - the royal sage; प्रभावत्याम् (prabhāvatyām) - Prabhavati; यथा (yathā) - just as; रविः (raviḥ) - the sun; स्वाहायाम् (svāhāyām) - with Svaha; च (ca) - and; यथा (yathā) - just as; वह्निः (vahniḥ) - fire; यथा (yathā) - just as; शच्याम् (śacyām) - with Shachi; सः (saḥ) - he; वासवः (vāsavaḥ) - Indra;]
The royal sage enjoyed conjugal happiness with Prabhavati, just as the sun does with Svaha, fire with Svaha, and Indra with Shachi. (5-115-8)
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः। वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः ॥५-११५-९॥
yathā candraśca rōhiṇyāṁ yathā dhūmōrṇayā yamaḥ। varuṇaśca yathā gauryāṁ yathā carddhyāṁ dhanēśvaraḥ ॥5-115-9॥
[यथा (yathā) - just as; चन्द्रः (candraḥ) - the moon; च (ca) - and; रोहिण्यां (rōhiṇyāṁ) - with Rohiṇī; यथा (yathā) - just as; धूमोर्णया (dhūmōrṇayā) - with Dhūmorṇā; यमः (yamaḥ) - Yama; वरुणः (varuṇaḥ) - Varuṇa; च (ca) - and; यथा (yathā) - just as; गौर्यां (gauryāṁ) - with Gaurī; यथा (yathā) - just as; च (ca) - and; ऋद्ध्यां (r̥ddhyāṁ) - with Ṛddhī; धनेश्वरः (dhanēśvaraḥ) - the lord of wealth;]
just as the moon is with Rohiṇī, Yama with Dhūmorṇā, Varuṇa with Gaurī, and the lord of wealth with Ṛddhī (5-115-9)
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः। यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ॥५-११५-१०॥
yathā nārāyaṇō lakṣmyāṁ jāhnavyāṁ ca yathōdadhiḥ। yathā rudraśca rudrāṇyāṁ yathā vēdyāṁ pitāmahaḥ ॥5-115-10॥
[यथा (yathā) - just as; नारायणः (nārāyaṇaḥ) - Nārāyaṇa; लक्ष्म्यां (lakṣmyāṁ) - in Lakṣmī; जाह्नव्यां च (jāhnavyāṁ ca) - and in Jāhnavī (the Ganges); यथा (yathā) - just as; उदधिः (udadhiḥ) - the ocean; यथा (yathā) - just as; रुद्रः च (rudraḥ ca) - and Rudra; रुद्राण्यां (rudrāṇyāṁ) - in Rudrāṇī; यथा (yathā) - just as; वेद्यां (vēdyāṁ) - in the altar; पितामहः (pitāmahaḥ) - Pitamaha (the Grandfather, Brahmā);]
Just as Nārāyaṇa is in Lakṣmī, as the ocean is in Jāhnavī, as Rudra is in Rudrāṇī, as the Grandfather (Brahmā) is in the altar, (5-115-10)
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया। च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा ॥५-११५-११॥
adr̥śyantyāṁ ca vāsiṣṭhō vasiṣṭhaścākṣamālayā। cyavanaśca sukanyāyāṁ pulastyaḥ sandhyayā yathā ॥5-115-11॥
[अदृश्यन्त्यां (adr̥śyantyāṁ) - in Adṛśyantī; च (ca) - and; वासिष्ठः (vāsiṣṭhaḥ) - the son of Vasiṣṭha; वसिष्ठः (vasiṣṭhaḥ) - Vasiṣṭha; च (ca) - and; अक्षमालया (akṣamālayā) - with Akṣamālā; च्यवनः (cyavanaḥ) - Cyavana; च (ca) - and; सुकन्यायाम् (sukanyāyām) - in Sukanyā; पुलस्त्यः (pulastyaḥ) - Pulastya; सन्ध्यया (sandhyayā) - with Sandhyā; यथा (yathā) - as;]
As the son of Vasiṣṭha was in Adṛśyantī, as Vasiṣṭha was with Akṣamālā, as Cyavana was with Sukanyā, as Pulastya was with Sandhyā, (5-115-11)
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा। यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ॥५-११५-१२॥
agastyaścāpi vaidarbhyāṁ sāvitryāṁ satyavānyathā। yathā bhr̥guḥ pulōmāyāmadityāṁ kaśyapō yathā ॥5-115-12॥
[अगस्त्यः (agastyaḥ) - Agastya; च (ca) - and; अपि (api) - also; वैदर्भ्यां (vaidarbhyāṁ) - with the princess of Vidarbha; सावित्र्यां (sāvitryāṁ) - with Sāvitrī; सत्यवान् (satyavān) - Satyavat; यथा (yathā) - as; यथा (yathā) - as; भृगुः (bhr̥guḥ) - Bhṛgu; पुलोमायाम् (pulōmāyām) - with Pulomā; अदित्यां (adityāṁ) - with Aditi; कश्यपः (kaśyapaḥ) - Kaśyapa; यथा (yathā) - as;]
As Agastya with the princess of Vidarbha, as Satyavat with Sāvitrī, as Bhṛgu with Pulomā, and as Kaśyapa with Aditi. (5-115-12)
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः। बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया ॥५-११५-१३॥
rēṇukāyāṁ yathārcīkō haimavatyāṁ ca kauśikaḥ। br̥haspatiśca tārāyāṁ śukraśca śataparvayā ॥5-115-13॥
[रेणुकायां (rēṇukāyāṁ) - in Reṇukā; यथा (yathā) - just as; अर्चीकः (arcīkaḥ) - Ṛcīka; हैमवत्यां (haimavatyāṁ) - in Haimavatī; च (ca) - and; कौशिकः (kauśikaḥ) - Kauśika; बृहस्पतिः (br̥haspatiḥ) - Bṛhaspati; च (ca) - and; तारायां (tārāyāṁ) - in Tārā; शुक्रः (śukraḥ) - Śukra; च (ca) - and; शतपर्वया (śataparvayā) - with Śataparvā;]
Just as Ṛcīka in Reṇukā, Kauśika in Haimavatī, Bṛhaspati in Tārā, and Śukra with Śataparvā... (5-115-13)
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः। ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः ॥५-११५-१४॥
yathā bhūmyāṁ bhūmipatirurvaśyāṁ ca purūravāḥ। r̥cīkaḥ satyavatyāṁ ca sarasvatyāṁ yathā manuḥ ॥5-115-14॥
[यथा (yathā) - just as; भूम्यां (bhūmyāṁ) - on the earth; भूमिपतिः (bhūmipatiḥ) - the king; उर्वश्यां (urvaśyāṁ) - in Urvaśī; च (ca) - and; पुरूरवाः (purūravāḥ) - Purūravas; ऋचीकः (r̥cīkaḥ) - Ṛcīka; सत्यवत्यां (satyavatyāṁ) - in Satyavatī; च (ca) - and; सरस्वत्यां (sarasvatyāṁ) - in Sarasvatī; यथा (yathā) - just as; मनुः (manuḥ) - Manu;]
Just as the king on the earth, Purūravas in Urvaśī, Ṛcīka in Satyavatī, and Manu in Sarasvatī... (5-115-14)
तथा तु रममाणस्य दिवोदासस्य भूपतेः। माधवी जनयामास पुत्रमेकं प्रतर्दनम् ॥५-११५-१५॥
tathā tu ramamāṇasya divōdāsasya bhūpatēḥ। mādhavī janayāmāsa putramēkaṁ pratardanam ॥5-115-15॥
[तथा (tathā) - in the same way; तु (tu) - but; रममाणस्य (ramamāṇasya) - while enjoying; दिवोदासस्य (divōdāsasya) - of Divodāsa; भूपतेः (bhūpatēḥ) - the king; माधवी (mādhavī) - Mādhavī; जनयामास (janayāmāsa) - gave birth; पुत्रम् (putram) - a son; एकम् (ēkam) - one; प्रतर्दनम् (pratardanam) - Pratardana;]
In the same way, while Divodāsa the king was enjoying her, Mādhavī gave birth to a son, Pratardana. (5-115-15)
अथाजगाम भगवान्दिवोदासं स गालवः। समये समनुप्राप्ते वचनं चेदमब्रवीत् ॥५-११५-१६॥
athājagāma bhagavāndivōdāsaṁ sa gālavaḥ। samayē samanuprāptē vacanaṁ cēdamabravīt ॥5-115-16॥
[अथ (atha) - then; आजगाम (ājagāma) - came; भगवान् (bhagavān) - the venerable; दिवोदासं (divōdāsaṁ) - to Divodasa; स (sa) - he; गालवः (gālavaḥ) - Galava; समये (samayē) - at the appointed time; समनुप्राप्ते (samanuprāptē) - having arrived; वचनं (vacanaṁ) - words; च (ca) - and; इदम् (idam) - these; अब्रवीत् (abravīt) - spoke;]
Then, when the appointed time had come, the venerable Galava came to Divodasa and spoke these words: (5-115-16)
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः। यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ॥५-११५-१७॥
niryātayatu mē kanyāṁ bhavāṁstiṣṭhantu vājinaḥ। yāvadanyatra gacchāmi śulkārthaṁ pr̥thivīpatē ॥5-115-17॥
[निर्यातयतु (niryātayatu) - let him give away; मे (mē) - to me; कन्यां (kanyāṁ) - the girl; भवान् (bhavān) - your majesty; तिष्ठन्तु (tiṣṭhantu) - let them remain; वाजिनः (vājinaḥ) - the horses; यावत् (yāvat) - while; अन्यत्र (anyatra) - elsewhere; गच्छामि (gacchāmi) - I go; शुल्कार्थं (śulkārthaṁ) - to obtain the bride-price; पृथिवीपते (pr̥thivīpatē) - O king;]
Let your majesty give me the girl, and let the horses stay here while I go elsewhere to obtain the bride-price, O king. (5-115-17)
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्। कन्यां निर्यातयामास स्थितः सत्ये महीपतिः ॥५-११५-१८॥
divōdāsō’tha dharmātmā samayē gālavasya tām। kanyāṁ niryātayāmāsa sthitaḥ satyē mahīpatiḥ ॥5-115-18॥
[दिवोदासः (divōdāsaḥ) - Divodāsa; अथ (atha) - then; धर्मात्मा (dharmātmā) - righteous; समये (samayē) - at the appointed time; गालवस्य (gālavasya) - to Gālava; ताम् (tām) - her; कन्यां (kanyāṁ) - the maiden; निर्यातयामास (niryātayāmāsa) - gave away; स्थितः (sthitaḥ) - standing fast; सत्ये (satyē) - in truth; महीपतिः (mahīpatiḥ) - the king;]
Then the righteous king Divodāsa, steadfast in truth, gave that maiden to Gālava at the appointed time. (5-115-18)