05.118
नारद उवाच॥
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्। उपगम्याश्रमपदं गङ्गायमुनसङ्गमे ॥५-११८-१॥
गृहीतमाल्यदामां तां रथमारोप्य माधवीम्। पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥५-११८-२॥
नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम्। शैलद्रुमवनौकानामासीत्तत्र समागमः ॥५-११८-३॥
नानापुरुषदेशानामीश्वरैश्च समाकुलम्। ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥५-११८-४॥
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी। वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् ॥५-११८-५॥
अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु। उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥५-११८-६॥
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा। आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥५-११८-७॥
वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च। चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च ॥५-११८-८॥
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च। पिबन्ती वारिमुख्यानि शीतानि विमलानि च ॥५-११८-९॥
वनेषु मृगराजेषु सिंहविप्रोषितेषु च। दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च ॥५-११८-१०॥
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी। चचार विपुलं धर्मं ब्रह्मचर्येण संवृता ॥५-११८-११॥
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः। बहुवर्षसहस्रायुरयुजत्कालधर्मणा ॥५-११८-१२॥
पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ। ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ॥५-११८-१३॥
महीयते नरपतिर्ययातिः स्वर्गमास्थितः। महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ॥५-११८-१४॥
बहुवर्षसहस्राख्ये काले बहुगुणे गते। राजर्षिषु निषण्णेषु महीयःसु महर्षिषु ॥५-११८-१५॥
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा। ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥५-११८-१६॥
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः। ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ॥५-११८-१७॥
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्। को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ॥५-११८-१८॥
कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम्। कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥५-११८-१९॥
एवं विचारयन्तस्ते राजानः स्वर्गवासिनः। दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥५-११८-२०॥
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः। पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् ॥५-११८-२१॥
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम्। स मुहूर्तादथ नृपो हतौजा अभवत्तदा ॥५-११८-२२॥