05.119
नारद उवाच॥
अथ प्रचलितः स्थानादासनाच्च परिच्युतः। कम्पितेनैव मनसा धर्षितः शोकवह्निना ॥५-११९-१॥
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः। विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ॥५-११९-२॥
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः। शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ॥५-११९-३॥
किं मया मनसा ध्यातमशुभं धर्मदूषणम्। येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ॥५-११९-४॥
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा। अपश्यन्त निरालम्बं ययातिं तं परिच्युतम् ॥५-११९-५॥
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः। ययातिमब्रवीद्राजन्देवराजस्य शासनात् ॥५-११९-६॥
अतीव मदमत्तस्त्वं न कञ्चिन्नावमन्यसे। मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज । न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् ॥५-११९-७॥
पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः। पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः ॥५-११९-८॥
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान्। चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः ॥५-११९-९॥
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः। वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् ॥५-११९-१०॥
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम्। ययातिरुपजिघ्रन्वै निपपात महीं प्रति ॥५-११९-११॥
भूमौ स्वर्गे च सम्बद्धां नदीं धूममयीं नृपः। स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः ॥५-११९-१२॥
श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु। मध्ये निपतितो राजा लोकपालोपमेषु च ॥५-११९-१३॥
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु। पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये ॥५-११९-१४॥
तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः। को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ॥५-११९-१५॥
यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा। न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया ॥५-११९-१६॥
ययातिरुवाच॥
ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः। पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ॥५-११९-१७॥
राजान ऊचुः॥
सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ। सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ॥५-११९-१८॥
ययातिरुवाच॥
नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम्। न च मे प्रवणा बुद्धिः परपुण्यविनाशने ॥५-११९-१९॥
नारद उवाच॥
एतस्मिन्नेव काले तु मृगचर्याक्रमागताम्। माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ॥५-११९-२०॥
किमागमनकृत्यं ते किं कुर्वः शासनं तव। आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ॥५-११९-२१॥
तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा। पितरं समुपागच्छद्ययातिं सा ववन्द च ॥५-११९-२२॥
दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत्। दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः । इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् ॥५-११९-२३॥
अहं ते दुहिता राजन्माधवी मृगचारिणी। मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ॥५-११९-२४॥
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः। तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप ॥५-११९-२५॥
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा। अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ॥५-११९-२६॥
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम्। मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् ॥५-११९-२७॥
अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम्। तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ॥५-११९-२८॥