05.127
Pancharatra: Gandhari advises Duryodhana on Kingly dharma, and a surrender to Lord Krishna.
शवैशम्पायन उवाच॥
कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः । विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ॥५-१२७-१॥
गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् । आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ॥५-१२७-२॥
यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम् । अपि कृष्णाय सुहृदस्तिष्ठेम वचने वयम् ॥५-१२७-३॥
अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् । दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः ॥५-१२७-४॥
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् । शमयेच्चिररात्राय योगक्षेमवदव्ययम् ॥५-१२७-५॥
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् । आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ॥५-१२७-६॥
धृतराष्ट्र उवाच॥
एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः । ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ॥५-१२७-७॥
अशिष्टवदमर्यादः पापैः सह दुरात्मभिः । सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ॥५-१२७-८॥
वैशम्पायन उवाच॥
सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी । अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ॥५-१२७-९॥
आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम् । न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ॥५-१२७-१०॥
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः । यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ॥५-१२७-११॥
स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः । अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ॥५-१२७-१२॥
राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः । दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम् ॥५-१२७-१३॥
कथं हि स्वजने भेदमुपेक्षेत महामतिः । भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः ॥५-१२७-१४॥
या हि शक्या महाराज साम्ना दानेन वा पुनः । निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ॥५-१२७-१५॥
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् । मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ॥५-१२७-१६॥
स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः । अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः ॥५-१२७-१७॥
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् । विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत् ॥५-१२७-१८॥
दुर्योधन निबोधेदं वचनं मम पुत्रक । हितं ते सानुबन्धस्य तथायत्यां सुखोदयम् ॥५-१२७-१९॥
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता । भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ॥५-१२७-२०॥
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते । अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ ॥५-१२७-२१॥
न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् । विजितात्मा तु मेधावी स राज्यमभिपालयेत् ॥५-१२७-२२॥
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः । तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥५-१२७-२३॥
लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः । राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ॥५-१२७-२४॥
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः । इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥५-१२७-२५॥
अविध्येयानि हीमानि व्यापादयितुमप्यलम् । अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥५-१२७-२६॥
अविजित्य य आत्मानममात्यान्विजिगीषते । अजितात्माजितामात्यः सोऽवशः परिहीयते ॥५-१२७-२७॥
आत्मानमेव प्रथमं देशरूपेण यो जयेत् । ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥५-१२७-२८॥
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु । परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥५-१२७-२९॥
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ । कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ॥५-१२७-३०॥
याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् । बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ॥५-१२७-३१॥
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः । सम्यग्विजेतुं यो वेद स महीमभिजायते ॥५-१२७-३२॥
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः । ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ॥५-१२७-३३॥
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते । स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥५-१२७-३४॥
एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः । पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ॥५-१२७-३५॥
यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः । आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ॥५-१२७-३६॥
प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् । प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ॥५-१२७-३७॥
सुहृदामर्थकामानां यो न तिष्ठति शासने । प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥५-१२७-३८॥
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् । न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ॥५-१२७-३९॥
भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च । दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भीतैररिंदम ॥५-१२७-४०॥
तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि । यद्भुङ्क्षे पृथिवीं सर्वां शूरैर्निहतकण्टकाम् ॥५-१२७-४१॥
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम । यदीच्छसि सहामात्यो भोक्तुमर्धं महीक्षिताम् ॥५-१२७-४२॥
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवनम् । सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत ॥५-१२७-४३॥
श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः । पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ॥५-१२७-४४॥
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् । स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ॥५-१२७-४५॥
अलमह्ना निकारोऽयं त्रयोदश समाः कृतः । शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ॥५-१२७-४६॥
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति । सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ॥५-१२७-४७॥
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये । धृष्टद्युम्ने च सङ्क्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ॥५-१२७-४८॥
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः । सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम् ॥५-१२७-४९॥
यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः । योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ॥५-१२७-५०॥
समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् । पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ॥५-१२७-५१॥
राजपिण्डभयादेते यदि हास्यन्ति जीवितम् । न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ॥५-१२७-५२॥
न लोभादर्थसम्पत्तिर्नराणामिह दृश्यते । तदलं तात लोभेन प्रशाम्य भरतर्षभ ॥५-१२७-५३॥