05.126
Pancharatra: When Krishna advises the King to override Duryodhana, Duryodhana departs. Then Krishna recommends sacrificing Duryodhana and his aids for the welfare of others.
शवैशम्पायन उवाच॥
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः । दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥५-१२६-१॥
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि । स्थिरो भव सहामात्यो विमर्दो भविता महान् ॥५-१२६-२॥
यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः । पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः ॥५-१२६-३॥
श्रिया सन्तप्यमानेन पाण्डवानां महात्मनाम् । त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ॥५-१२६-४॥
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः । तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ॥५-१२६-५॥
अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम् । असतां तत्र जायन्ते भेदाश्च व्यसनानि च ॥५-१२६-६॥
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् । असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः ॥५-१२६-७॥
कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति । आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया ॥५-१२६-८॥
कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी । महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ॥५-१२६-९॥
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि । दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः ॥५-१२६-१०॥
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु । स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम् ॥५-१२६-११॥
नृशंसानामनार्याणां परुषाणां च भाषणम् । कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ॥५-१२६-१२॥
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते । आस्थितः परमं यत्नं न समृद्धं च तत्तव ॥५-१२६-१३॥
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा । मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥५-१२६-१४॥
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया । सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ॥५-१२६-१५॥
एवम्बुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् । कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ॥५-१२६-१६॥
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् । मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ॥५-१२६-१७॥
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च । शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव ॥५-१२६-१८॥
शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः । न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ॥५-१२६-१९॥
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः । अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ॥५-१२६-२०॥
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् । दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि ॥५-१२६-२१॥
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः । बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥५-१२६-२२॥
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ । पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ॥५-१२६-२३॥
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः । क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ॥५-१२६-२४॥
विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् । कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ॥५-१२६-२५॥
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः । अशिष्टवदमर्यादो मानी मान्यावमानिता ॥५-१२६-२६॥
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् । अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ॥५-१२६-२७॥
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह । दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ॥५-१२६-२८॥
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते । हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ॥५-१२६-२९॥
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् । मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ॥५-१२६-३०॥
कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन । सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ॥५-१२६-३१॥
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः । भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ॥५-१२६-३२॥
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः । प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् ॥५-१२६-३३॥
तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः । क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः ॥५-१२६-३४॥
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः । भवतामानुकूल्येन यदि रोचेत भारताः ॥५-१२६-३५॥
भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् । जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः ॥५-१२६-३६॥
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः । ज्ञातीनां हितकामेन मया शस्तो महामृधे ॥५-१२६-३७॥
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः । उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ॥५-१२६-३८॥
कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः । सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः ॥५-१२६-३९॥
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः । व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ॥५-१२६-४०॥
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत । अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः ॥५-१२६-४१॥
पराभविष्यन्त्यसुरा दैतेया दानवैः सह । आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः ॥५-१२६-४२॥
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः । अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् ॥५-१२६-४३॥
इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः । वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ॥५-१२६-४४॥
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः । वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ॥५-१२६-४५॥
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः । वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ॥५-१२६-४६॥
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् । बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ॥५-१२६-४७॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥५-१२६-४८॥
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः । त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥५-१२६-४९॥