05.128
Pancharatra:Pre-empting the evil plans of Duryodhana to capture lord Krishna; Vidura and Dhritarashtra advise against such a move.
वैशम्पायन उवाच॥
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् । पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ॥५-१२८-१॥
ततः सभाया निर्गम्य मन्त्रयामास कौरवः । सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥५-१२८-२॥
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च । दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ॥५-१२८-३॥
पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः । सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥५-१२८-४॥
वयमेव हृषीकेशं निगृह्णीम बलादिव । प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ॥५-१२८-५॥
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः । निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ॥५-१२८-६॥
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च । अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् ॥ निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ॥५-१२८-७॥
तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् । क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ॥५-१२८-८॥
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् । इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः ॥५-१२८-९॥
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः । अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ॥५-१२८-१०॥
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः । यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे ॥५-१२८-११॥
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव । आचष्ट तमभिप्रायं केशवाय महात्मने ॥५-१२८-१२॥
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत । तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ॥५-१२८-१३॥
धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् । मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथञ्चन ॥५-१२८-१४॥
पुरा विकुर्वते मूढाः पापात्मानः समागताः । धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ॥५-१२८-१५॥
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः । पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ॥५-१२८-१६॥
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् । धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ॥५-१२८-१७॥
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप । अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः ॥५-१२८-१८॥
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च । निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ॥५-१२८-१९॥
इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् । आसाद्य न भविष्यन्ति पतङ्गा इव पावकम् ॥५-१२८-२०॥
अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः । सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम् ॥५-१२८-२१॥
न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथञ्चन । न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः ॥५-१२८-२२॥
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् । धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः ॥५-१२८-२३॥
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा । एते वा मामहं वैनाननुजानीहि पार्थिव ॥५-१२८-२४॥
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे । न त्वहं निन्दितं कर्म कुर्यां पापं कथञ्चन ॥५-१२८-२५॥
पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः । एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ॥५-१२८-२६॥
अद्यैव ह्यहमेतांश्च ये चैताननु भारत । निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ॥५-१२८-२७॥
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत । संनिधौ ते महाराज क्रोधजं पापबुद्धिजम् ॥५-१२८-२८॥
एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् । अहं तु सर्वान्समयाननुजानामि भारत ॥५-१२८-२९॥
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत । क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ॥५-१२८-३०॥
सहमित्रं सहामात्यं ससोदर्यं सहानुगम् । शक्नुयां यदि पन्थानमवतारयितुं पुनः ॥५-१२८-३१॥
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम् । अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥५-१२८-३२॥
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत । कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम् ॥५-१२८-३३॥
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् । पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥५-१२८-३४॥
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् । यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ॥५-१२८-३५॥
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् । पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥५-१२८-३६॥
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः । तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ॥५-१२८-३७॥
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः । न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ॥५-१२८-३८॥
दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी । दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात् ॥५-१२८-३९॥
इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत् । दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥५-१२८-४०॥
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः । शिलावर्षेण महता छादयामास केशवम् ॥५-१२८-४१॥
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् । ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥५-१२८-४२॥
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः । ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ॥५-१२८-४३॥
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः । ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥५-१२८-४४॥
अनेन हि हता बाल्ये पूतना शिशुना तथा । गोवर्धनो धारितश्च गवार्थे भरतर्षभ ॥५-१२८-४५॥
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः । अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ॥५-१२८-४६॥
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् । बाणश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ॥५-१२८-४७॥
वरुणो निर्जितो राजा पावकश्चामितौजसा । पारिजातं च हरता जितः साक्षाच्छचीपतिः ॥५-१२८-४८॥
एकार्णवे शयानेन हतौ तौ मधुकैटभौ । जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः ॥५-१२८-४९॥
अयं कर्ता न क्रियते कारणं चापि पौरुषे । यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ॥५-१२८-५०॥
तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् । आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम् ॥५-१२८-५१॥
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् । पतङ्गोऽग्निमिवासाद्य सामात्यो न भविष्यसि ॥५-१२८-५२॥