Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.144
वैशम्पायन उवाच॥
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् । दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥५-१४४-१॥
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु । श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥५-१४४-२॥
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना । चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥५-१४४-३॥
कर्ण उवाच॥
न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया । धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥५-१४४-४॥
अकरोन्मयि यत्पापं भवती सुमहात्ययम् । अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् ॥५-१४४-५॥
अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् । त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥५-१४४-६॥
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम । हीनसंस्कारसमयमद्य मां समचूचुदः ॥५-१४४-७॥
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया । सा मां सम्बोधयस्यद्य केवलात्महितैषिणी ॥५-१४४-८॥
कृष्णेन सहितात्को वै न व्यथेत धनञ्जयात् । कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम् ॥५-१४४-९॥
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः । पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥५-१४४-१०॥
सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् । अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥५-१४४-११॥
उपनह्य परैर्वैरं ये मां नित्यमुपासते । नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥५-१४४-१२॥
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् । मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् ॥५-१४४-१३॥
मया प्लवेन सङ्ग्रामं तितीर्षन्ति दुरत्ययम् । अपारे पारकामा ये त्यजेयं तानहं कथम् ॥५-१४४-१४॥
अयं हि कालः सम्प्राप्तो धार्तराष्ट्रोपजीविनाम् । निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥५-१४४-१५॥
कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते । अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥५-१४४-१६॥
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् । नैवायं न परो लोको विद्यते पापकर्मणाम् ॥५-१४४-१७॥
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः । बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥५-१४४-१८॥
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् । अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥५-१४४-१९॥
न तु तेऽयं समारम्भो मयि मोघो भविष्यति । वध्यान्विषह्यान्सङ्ग्रामे न हनिष्यामि ते सुतान् ॥ युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ॥५-१४४-२०॥
अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले । अर्जुनं हि निहत्याजौ सम्प्राप्तं स्यात्फलं मया ॥ यशसा चापि युज्येयं निहतः सव्यसाचिना ॥५-१४४-२१॥
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि । निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥५-१४४-२२॥
वैशम्पायन उवाच॥
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती । उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् ॥५-१४४-२३॥
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः । यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥५-१४४-२४॥
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन । दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् ॥५-१४४-२५॥
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् । तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥५-१४४-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.