06.001
Core and Pancharatra: Facing east, gather the Pandavas and facing west, gather the Kauravas. Agree on the rules of engagement for a war.
जनमेजय उवाच॥
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः। पार्थिवाश्च महाभागा नानादेशसमागताः ॥६-१-१॥
वैशम्पायन उवाच॥
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः। कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ॥६-१-२॥
अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः। कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥६-१-३॥
वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः। आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ॥६-१-४॥
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्। प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ॥६-१-५॥
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः। कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥६-१-६॥
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता। निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ॥६-१-७॥
यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम्। तावदेव समावृत्तं बलं पार्थिवसत्तम ॥६-१-८॥
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम्। पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥६-१-९॥
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ। आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥६-१-१०॥
सञ्ज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः। एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥६-१-११॥
अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च। योजयामास कौरव्यो युद्धकाल उपस्थिते ॥६-१-१२॥
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः। सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ॥६-१-१३॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ॥६-१-१४॥
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः। दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥६-१-१५॥
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः। बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥६-१-१६॥
ततो योधान्हर्षयन्तौ वासुदेवधनञ्जयौ। दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥६-१-१७॥
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः। श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥६-१-१८॥
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः। त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ॥६-१-१९॥
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन। अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥६-१-२०॥
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान्। व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ॥६-१-२१॥
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः। विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ॥६-१-२२॥
उभे सेने तदा राजन्युद्धाय मुदिते भृशम्। कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥६-१-२३॥
तयोस्तु सेनयोरासीदद्भुतः स समागमः। युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥६-१-२४॥
शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता। तेन सेनासमूहेन समानीतेन कौरवैः ॥६-१-२५॥
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः। धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ॥६-१-२६॥
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम्। यथापुरं यथायोगं न च स्याच्छलनं पुनः ॥६-१-२७॥
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम्। निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथञ्चन ॥६-१-२८॥
रथी च रथिना योध्यो गजेन गजधूर्गतः। अश्वेनाश्वी पदातिश्च पदातेनैव भारत ॥६-१-२९॥
यथायोगं यथावीर्यं यथोत्साहं यथावयः। समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥६-१-३०॥
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा। क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथञ्चन ॥६-१-३१॥
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु। न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ॥६-१-३२॥
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः। विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥६-१-३३॥
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः। हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥६-१-३४॥