6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.007
Library: Description of the five elements and their manifestation. Then the Sudarshana island, visible in the moon's sphere.
धृतराष्ट्र उवाच॥
उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय। यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ॥ तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥६-७-१॥
वैशम्पायन उवाच॥
एवमुक्तः स राज्ञा तु सञ्जयो वाक्यमब्रवीत्। प्रागायता महाराज षडेते रत्नपर्वताः ॥ अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥६-७-२॥
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः। नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः ॥ सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः ॥६-७-३॥
एते वै पर्वता राजन्सिद्धचारणसेविताः। तेषामन्तरविष्कम्भो योजनानि सहस्रशः ॥६-७-४॥
तत्र पुण्या जनपदास्तानि वर्षाणि भारत। वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥६-७-५॥
इदं तु भारतं वर्षं ततो हैमवतं परम्। हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥६-७-६॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च। प्रागायतो महाराज माल्यवान्नाम पर्वतः ॥६-७-७॥
ततः परं माल्यवतः पर्वतो गन्धमादनः। परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ॥६-७-८॥
आदित्यतरुणाभासो विधूम इव पावकः। योजनानां सहस्राणि षोडशाधः किल स्मृतः ॥६-७-९॥
उच्चैश्च चतुराशीतिर्योजनानां महीपते। ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति ॥६-७-१०॥
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो। भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ॥ उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥६-७-११॥
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल। स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ॥६-७-१२॥
मेरुरुत्तममध्यानामधमानां च पक्षिणाम्। अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥६-७-१३॥
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः। चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ॥६-७-१४॥
स पर्वतो महाराज दिव्यपुष्पफलान्वितः। भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः ॥६-७-१५॥
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः। अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः ॥६-७-१६॥
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः। समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥६-७-१७॥
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः। अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो ॥६-७-१८॥
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः। तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥६-७-१९॥
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते। तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ॥६-७-२०॥
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते। ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥६-७-२१॥
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम्। कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥६-७-२२॥
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः। उमासहायो भगवान्रमते भूतभावनः ॥६-७-२३॥
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम्। त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ॥६-७-२४॥
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः। पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ॥६-७-२५॥
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर। त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना ॥६-७-२६॥
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा। पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे ॥ तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ॥६-७-२७॥
तां धारयामास पुरा दुर्धरां पर्वतैरपि। शतं वर्षसहस्राणां शिरसा वै महेश्वरः ॥६-७-२८॥
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते। जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः ॥६-७-२९॥
आयुर्दश सहस्राणि वर्षाणां तत्र भारत। सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ॥६-७-३०॥
अनामया वीतशोका नित्यं मुदितमानसाः। जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ॥६-७-३१॥
गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः। संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ॥६-७-३२॥
गन्धमादनपादेषु परेष्वपरगण्डिकाः। एकादश सहस्राणि वर्षाणां परमायुषः ॥६-७-३३॥
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः। स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ॥६-७-३४॥
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम्। वर्षमैरावतं नाम ततः शृङ्गवतः परम् ॥६-७-३५॥
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे। इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह ॥६-७-३६॥
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः। आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥६-७-३७॥
समन्वितानि भूतानि तेषु वर्षेषु भारत। एवमेषा महाराज पर्वतैः पृथिवी चिता ॥६-७-३८॥
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः। यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ॥६-७-३९॥
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति। हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥६-७-४०॥
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम्। रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥६-७-४१॥
यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः। तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ॥६-७-४२॥
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः। उपास्यते तिग्मतेजा वृतो भूतैः समागतैः ॥ नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥६-७-४३॥
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता। ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥६-७-४४॥
वस्वोकसारा नलिनी पावना च सरस्वती। जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ॥६-७-४५॥
अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः। उपासते यत्र सत्रं सहस्रयुगपर्यये ॥६-७-४६॥
दृश्यादृश्या च भवति तत्र तत्र सरस्वती। एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥६-७-४७॥
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः। सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः ॥६-७-४८॥
देवासुराणां च गृहं श्वेतः पर्वत उच्यते। गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप ॥ शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः ॥६-७-४९॥
इत्येतानि महाराज सप्त वर्षाणि भागशः। भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥६-७-५०॥
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी। अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता ॥६-७-५१॥
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम्। पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे ॥६-७-५२॥
कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च ॥६-७-५२॥
ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः। एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥६-७-५३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.