6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.006
Library: Dhritarashtra enquires about the earth and earth dwellers. Sanjaya starts with the description of movable and immovable beings.
धृतराष्ट्र उवाच॥
नदीनां पर्वतानां च नामधेयानि सञ्जय। तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥६-६-१॥
प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः। निखिलेन समाचक्ष्व काननानि च सञ्जय ॥६-६-२॥
सञ्जय उवाच॥
पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात्। जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः ॥६-६-३॥
भूमिरापस्तथा वायुरग्निराकाशमेव च। गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥६-६-४॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥६-६-५॥
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते। शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ॥ शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च ॥६-६-६॥
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु। वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः ॥६-६-७॥
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा। यदा तु विषमीभावमाविशन्ति परस्परम् ॥ तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥६-६-८॥
आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः। सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् ॥६-६-९॥
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः। तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥६-६-१०॥
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्। प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥६-६-११॥
सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन। परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥६-६-१२॥
नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः। पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥६-६-१३॥
वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान्। लावणेन समुद्रेण समन्तात्परिवारितः ॥६-६-१४॥
यथा च पुरुषः पश्येदादर्शे मुखमात्मनः। एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥६-६-१५॥
द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान्। सर्वौषधिसमावापैः सर्वतः परिबृंहितः ॥ आपस्ततोऽन्या विज्ञेया एष सङ्क्षेप उच्यते ॥६-६-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.