06.008
Library: Description of the six jewel mountains stretching out and submerged between the eastern and western oceans; four islands: Bhadrashva, Ketumala, Jambudvipa, and Bharata.
धृतराष्ट्र उवाच॥
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय। निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥६-८-१॥
सञ्जय उवाच॥
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे। उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥६-८-२॥
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥६-८-३॥
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप। अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥६-८-४॥
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम्। वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥६-८-५॥
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका। सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ॥६-८-६॥
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः। तुल्यरूपगुणोपेताः समेषु विषमेषु च ॥६-८-७॥
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥६-८-८॥
मिथुनं जायमानं वै समं तच्च प्रवर्धते। तुल्यरूपगुणोपेतं समवेषं तथैव च ॥ एकैकमनुरक्तं च चक्रवाकसमं विभो ॥६-८-९॥
निरामया वीतशोका नित्यं मुदितमानसाः। दश वर्षसहस्राणि दश वर्षशतानि च ॥ जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥६-८-१०॥
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः। ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ॥६-८-११॥
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥६-८-१२॥
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते। भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥६-८-१३॥
कालाम्रश्च महाराज नित्यपुष्पफलः शुभः। द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ॥६-८-१४॥
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः। स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥६-८-१५॥
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः। चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ॥६-८-१६॥
दश वर्षसहस्राणि तत्रायुर्भरतर्षभ। कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥६-८-१७॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥६-८-१८॥
सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥६-८-१९॥
योजनानां सहस्रं च शतं च भरतर्षभ। उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥६-८-२०॥
अरत्नीनां सहस्रं च शतानि दश पञ्च च। परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥६-८-२१॥
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम्। मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ॥६-८-२२॥
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप। मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् ॥६-८-२३॥
पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप। तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥६-८-२४॥
तत्र जाम्बूनदं नाम कनकं देवभूषणम्। तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥६-८-२५॥
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट्। नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ॥६-८-२६॥
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका। योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ॥६-८-२७॥
महारजतसङ्काशा जायन्ते तत्र मानवाः। ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ॥६-८-२८॥
तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः। रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ॥६-८-२९॥
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च। अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥६-८-३०॥
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च। आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥६-८-३१॥