6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.042
Core and Pancharatra: The war begins, and it is the shout of Bhimasena that overpowers all.
धृतराष्ट्र उवाच॥
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च। के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ॥६-४२-१॥
सञ्जय उवाच॥
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव। भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥६-४२-२॥
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः। भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥६-४२-३॥
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः। भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥६-४२-४॥
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन्। वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥६-४२-५॥
महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ॥६-४२-६॥
नरेन्द्रनागाश्वरथाकुलाना; मभ्यायतीनामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ॥६-४२-७॥
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे। भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥६-४२-८॥
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्। सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥६-४२-९॥
हयानां हेषमाणानामनीकेषु सहस्रशः। सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ॥६-४२-१०॥
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः। जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥६-४२-११॥
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः। शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥६-४२-१२॥
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन्। विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ॥६-४२-१३॥
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन्। छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥६-४२-१४॥
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः। दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ॥६-४२-१५॥
विविंशतिश्चित्रसेनो विकर्णश्च महारथः। पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥६-४२-१६॥
महाचापानि धुन्वन्तो जलदा इव विद्युतः। आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥६-४२-१७॥
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः। नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥६-४२-१८॥
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः। वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥६-४२-१९॥
तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने। तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥६-४२-२०॥
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ। निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ॥६-४२-२१॥
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा। विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥६-४२-२२॥
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत। ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥६-४२-२३॥
ततस्ते जातसंरम्भाः परस्परकृतागसः। अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥६-४२-२४॥
कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले। शुशुभाते रणेऽतीव पटे चित्रगते इव ॥६-४२-२५॥
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः। सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥६-४२-२६॥
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः। विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥६-४२-२७॥
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः। अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥६-४२-२८॥
प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि। नात्र स्वेषां परेषां वा विशेषः समजायत ॥६-४२-२९॥
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये। अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥६-४२-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.