06.043
Core and Pancharatra: The duet battle takes place among the prominent warriors on both sides.
सञ्जय उवाच॥
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते। प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥६-४३-१॥
कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम्। सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ॥६-४३-२॥
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह। जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥६-४३-३॥
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ। पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः ॥६-४३-४॥
तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः। घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् ॥६-४३-५॥
तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे। बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ॥६-४३-६॥
ते मनः क्रूरमाधाय समभित्यक्तजीविताः। पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥६-४३-७॥
स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम्। प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥६-४३-८॥
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम्। अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥६-४३-९॥
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ। गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥ तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ॥६-४३-१०॥
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात्। तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ॥६-४३-११॥
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम्। आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ॥६-४३-१२॥
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ। वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ॥६-४३-१३॥
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत्। ततः कोसलको राजा सौभद्रस्य विशां पते ॥ ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ॥६-४३-१४॥
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ। बृहद्बलं महाराज विव्याध नवभिः शरैः ॥६-४३-१५॥
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः। ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥ अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ॥६-४३-१६॥
मानिनं समरे दृप्तं कृतवैरं महारथम्। भीमसेनस्तव सुतं दुर्योधनमयोधयत् ॥६-४३-१७॥
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ। अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ॥६-४३-१८॥
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ। विस्मयः सर्वभूतानां समपद्यत भारत ॥६-४३-१९॥
दुःशासनस्तु नकुलं प्रत्युद्याय महारथम्। अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ॥६-४३-२०॥
तस्य माद्रीसुतः केतुं सशरं च शरासनम्। चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ॥ अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् ॥६-४३-२१॥
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे। युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् ॥६-४३-२२॥
दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम्। विव्याध शरवर्षेण यतमानं महाहवे ॥६-४३-२३॥
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे। शरेण भृशतीक्ष्णेन पातयामास सारथिम् ॥६-४३-२४॥
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ। त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥६-४३-२५॥
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात्। तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥६-४३-२६॥
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः। अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥६-४३-२७॥
ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः। छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥६-४३-२८॥
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत। तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् ॥ त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् ॥६-४३-२९॥
शरं चैव महाघोरं कालदण्डमिवापरम्। प्रेषयामास समरे सोऽस्य काये न्यमज्जत ॥६-४३-३०॥
अथान्यद्धनुरादाय सायकांश्च चतुर्दश। द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ॥ तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् ॥६-४३-३१॥
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि। प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् ॥६-४३-३२॥
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम्। सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥६-४३-३३॥
तयोः समभवद्युद्धं घोररूपं विशां पते। दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव ॥६-४३-३४॥
बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते। अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥६-४३-३५॥
बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम्। शरैर्बहुभिरानर्छत्सिंहनादमथानदत् ॥६-४३-३६॥
चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः। विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥६-४३-३७॥
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः। समीयतुः सुसङ्क्रुद्धावङ्गारकबुधाविव ॥६-४३-३८॥
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः। अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥६-४३-३९॥
घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महाबलम्। नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥६-४३-४०॥
अलम्बुसस्तु समरे भैमसेनिं महाबलम्। बहुधा वारयामास शरैः संनतपर्वभिः ॥६-४३-४१॥
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ। यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥६-४३-४२॥
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली। अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ॥६-४३-४३॥
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत्। शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥६-४३-४४॥
सायकेन सुपीतेन तीक्ष्णेन निशितेन च। तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥६-४३-४५॥
भगदत्तं रणे शूरं विराटो वाहिनीपतिः। अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥६-४३-४६॥
विराटो भगदत्तेन शरवर्षेण ताडितः। अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् ॥६-४३-४७॥
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम्। छादयामास समरे मेघः सूर्यमिवोदितम् ॥६-४३-४८॥
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ। तं कृपः शरवर्षेण छादयामास भारत ॥६-४३-४९॥
गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत्। तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै ॥६-४३-५०॥
विरथावसियुद्धाय समीयतुरमर्षणौ। तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥६-४३-५१॥
द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम्। अभ्युद्ययौ सम्प्रहृष्टो हृष्टरूपं परन्तप ॥६-४३-५२॥
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः। ताडयामास समरे स च तं प्रत्यविध्यत ॥६-४३-५३॥
तयोः समभवद्युद्धं घोररूपं सुदारुणम्। ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव ॥६-४३-५४॥
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम्। अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ॥६-४३-५५॥
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः। सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥६-४३-५६॥
सुशर्माणं नरव्याघ्रं चेकितानो महारथः। अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी ॥६-४३-५७॥
सुशर्मा तु महाराज चेकितानं महारथम्। महता शरवर्षेण वारयामास संयुगे ॥६-४३-५८॥
चेकितानोऽपि संरब्धः सुशर्माणं महाहवे। प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥६-४३-५९॥
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी। अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् ॥६-४३-६०॥
यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः। व्यदारयत सङ्ग्रामे मघवानिव दानवम् ॥६-४३-६१॥
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे। व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः ॥६-४३-६२॥
सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम्। श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥६-४३-६३॥
सुदक्षिणस्तु समरे साहदेविं महारथम्। विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥६-४३-६४॥
श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम्। शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः ॥६-४३-६५॥
इरावानथ सङ्क्रुद्धः श्रुतायुषममर्षणम्। प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः ॥६-४३-६६॥
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः। ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् ॥६-४३-६७॥
श्रुतायुस्त्वथ सङ्क्रुद्धः फाल्गुनेः समरे हयान्। निजघान गदाग्रेण ततो युद्धमवर्तत ॥६-४३-६८॥
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम्। ससेनं ससुतं वीरं संससज्जतुराहवे ॥६-४३-६९॥
तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम्। यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह ॥६-४३-७०॥
अनुविन्दस्तु गदया कुन्तिभोजमताडयत्। कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् ॥६-४३-७१॥
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः। स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥६-४३-७२॥
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष। ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥६-४३-७३॥
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम्। उत्तरं योधयामास विव्याध निशितैः शरैः ॥ उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः ॥६-४३-७४॥
चेदिराट्समरे राजन्नुलूकं समभिद्रवत्। उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥६-४३-७५॥
तयोर्युद्धं समभवद्घोररूपं विशां पते। दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ ॥६-४३-७६॥
एवं द्वंद्वसहस्राणि रथवारणवाजिनाम्। पदातीनां च समरे तव तेषां च सङ्कुलम् ॥६-४३-७७॥
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्। तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन ॥६-४३-७८॥
गजो गजेन समरे रथी च रथिनं ययौ। अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् ॥६-४३-७९॥
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत। शूराणां समरे तत्र समासाद्य परस्परम् ॥६-४३-८०॥
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः। प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् ॥६-४३-८१॥
ततो दन्तिसहस्राणि रथानां चापि मारिष। अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥६-४३-८२॥
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः। सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ॥६-४३-८३॥