06.055
Pancharatra and Core: In the afternoon, under the leadership of Bhishma, the Kaurava army rallies back, and the Pandava army is in disarray. Seeing Arjuna fighting mildly, Krishna picks up a discus. Later, Arjuna fights valiantly, and the Pandavas gain the upper hand. Third day comes to an end.
धृतराष्ट्र उवाच॥
प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे। क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥६-५५-१॥
भीष्मः किमकरोत्तत्र पाण्डवेयेषु सञ्जय। पितामहे वा पाञ्चालास्तन्ममाचक्ष्व सञ्जय ॥६-५५-२॥
सञ्जय उवाच॥
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत। जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ॥६-५५-३॥
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव। अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् ॥ महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥६-५५-४॥
प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम्। अस्माकं पाण्डवैः सार्धमनयात्तव भारत ॥६-५५-५॥
धनुषां कूजतां तत्र तलानां चाभिहन्यताम्। महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥६-५५-६॥
तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव। स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः ॥६-५५-७॥
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च। शिलानामिव शैलेषु पतितानामभूत्स्वनः ॥६-५५-८॥
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः। व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥६-५५-९॥
हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः। प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः ॥६-५५-१०॥
प्रावर्तत महावेगा नदी रुधिरवाहिनी। मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा ॥६-५५-११॥
वराश्वनरनागानां शरीरप्रभवा तदा। परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥६-५५-१२॥
न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप। यथा तव सुतानां च पाण्डवानां च भारत ॥६-५५-१३॥
नासीद्रथपथस्तत्र योधैर्युधि निपातितैः। गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् ॥६-५५-१४॥
विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष। शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ॥६-५५-१५॥
विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः। अभीताः समरे शत्रूनभ्यधावन्त दंशिताः ॥६-५५-१६॥
तात भ्रातः सखे बन्धो वयस्य मम मातुल। मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥६-५५-१७॥
आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि। स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥६-५५-१८॥
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः। मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥६-५५-१९॥
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः। जघान पाण्डवरथानादिश्यादिश्य भारत ॥६-५५-२०॥
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम्। अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥६-५५-२१॥
तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा। अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥६-५५-२२॥
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे। पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥६-५५-२३॥
उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो। एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत ॥६-५५-२४॥
न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम्। विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥६-५५-२५॥
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम्। व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु ॥ अमानुषेण रूपेण चरन्तं पितरं तव ॥६-५५-२६॥
शलभा इव राजानः पतन्ति विधिचोदिताः। भीष्माग्निमभि सङ्क्रुद्धं विनाशाय सहस्रशः ॥६-५५-२७॥
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे। नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः ॥६-५५-२८॥
भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा। गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् ॥६-५५-२९॥
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि। नाराचेन सुतीक्ष्णेन निजघान पिता तव ॥६-५५-३०॥
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन। मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते ॥६-५५-३१॥
एवं सा धर्मराजस्य वध्यमाना महाचमूः। भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा ॥६-५५-३२॥
प्रकीर्यत महासेना शरवर्षाभितापिता। पश्यतो वासुदेवस्य पार्थस्य च महात्मनः ॥६-५५-३३॥
यतमानापि ते वीरा द्रवमाणान्महारथान्। नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः ॥६-५५-३४॥
महेन्द्रसमवीर्येण वध्यमाना महाचमूः। अभज्यत महाराज न च द्वौ सह धावतः ॥६-५५-३५॥
आविद्धनरनागाश्वं पतितध्वजकूबरम्। अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥६-५५-३६॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा। प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥६-५५-३७॥
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः। प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ॥६-५५-३८॥
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम्। ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥६-५५-३९॥
प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः। उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥६-५५-४०॥
अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया। प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे ॥६-५५-४१॥
यत्त्वया कथितं वीर पुरा राज्ञां समागमे। भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ॥६-५५-४२॥
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे। इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम ॥६-५५-४३॥
बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः। द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले ॥६-५५-४४॥
दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम्। भयार्ताः सम्प्रणश्यन्ति सिंहं क्षुद्रमृगा इव ॥६-५५-४५॥
एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः। चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् ॥६-५५-४६॥
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः। यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ॥६-५५-४७॥
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ॥६-५५-४८॥
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः। धनञ्जयरथं तूर्णं शरवर्षैरवाकिरत् ॥६-५५-४९॥
क्षणेन स रथस्तस्य सहयः सहसारथिः। शरवर्षेण महता सञ्छन्नो न प्रकाशते ॥६-५५-५०॥
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान्। चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ॥६-५५-५१॥
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम्। पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः ॥६-५५-५२॥
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः। निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥६-५५-५३॥
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम्। अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥६-५५-५४॥
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः। साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥६-५५-५५॥
त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय। प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह ॥६-५५-५६॥
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः। मुमोच समरे वीरः शरान्पार्थरथं प्रति ॥६-५५-५७॥
अदर्शयद्वासुदेवो हययाने परं बलम्। मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु ॥६-५५-५८॥
तथापि भीष्मः सुदृढं वासुदेवधनञ्जयौ। विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष ॥६-५५-५९॥
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ। गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ ॥६-५५-६०॥
पुनश्चापि सुसङ्क्रुद्धः शरैः संनतपर्वभिः। कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः ॥६-५५-६१॥
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः। मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा ॥६-५५-६२॥
ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम्। सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥६-५५-६३॥
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि। प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥६-५५-६४॥
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्। युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥६-५५-६५॥
अमृष्यमाणो भगवान्केशवः परवीरहा। अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥६-५५-६६॥
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान्। किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥६-५५-६७॥
द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः। एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् ॥ आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् ॥६-५५-६८॥
सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः। भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ॥६-५५-६९॥
अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे। कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ॥६-५५-७०॥
तथा चिन्तयतस्तस्य भूय एव पितामहः। प्रेषयामास सङ्क्रुद्धः शरान्पार्थरथं प्रति ॥६-५५-७१॥
तेषां बहुत्वाद्धि भृशं शराणां; दिशोऽथ सर्वाः पिहिता बभूवुः। न चान्तरिक्षं न दिशो न भूमि; र्न भास्करोऽदृश्यत रश्मिमाली ॥ ववुश्च वातास्तुमुलाः सधूमा; दिशश्च सर्वाः क्षुभिता बभूवुः ॥६-५५-७२॥
द्रोणो विकर्णोऽथ जयद्रथश्च; भूरिश्रवाः कृतवर्मा कृपश्च। श्रुतायुरम्बष्ठपतिश्च राजा; विन्दानुविन्दौ च सुदक्षिणश्च ॥६-५५-७३॥
प्राच्याश्च सौवीरगणाश्च सर्वे; वसातयः क्षुद्रकमालवाश्च। किरीटिनं त्वरमाणाभिसस्रु; र्निदेशगाः शान्तनवस्य राज्ञः ॥६-५५-७४॥
तं वाजिपादातरथौघजालै; रनेकसाहस्रशतैर्ददर्श। किरीटिनं सम्परिवार्यमाणं; शिनेर्नप्ता वारणयूथपैश्च ॥६-५५-७५॥
ततस्तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात्। अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरोऽभिससार तूर्णम् ॥६-५५-७६॥
स तान्यनीकानि महाधनुष्मा; ञ्शिनिप्रवीरः सहसाभिपत्य। चकार साहाय्यमथार्जुनस्य; विष्णुर्यथा वृत्रनिषूदनस्य ॥६-५५-७७॥
विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयोधम्। युधिष्ठिरानीकमभिद्रवन्तं; प्रोवाच संदृश्य शिनिप्रवीरः ॥६-५५-७८॥
क्व क्षत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात्कथितः पुराणैः। मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालयध्वम् ॥६-५५-७९॥
तान्वासवानन्तरजो निशम्य; नरेन्द्रमुख्यान्द्रवतः समन्तात्। पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च सङ्ख्ये समुदीर्यमाणम् ॥६-५५-८०॥
अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता। उवाच शैनेयमभिप्रशंस; न्दृष्ट्वा कुरूनापततः समन्तात् ॥६-५५-८१॥
ये यान्ति यान्त्वेव शिनिप्रवीर; येऽपि स्थिताः सात्वत तेऽपि यान्तु। भीष्मं रथात्पश्य निपात्यमानं; द्रोणं च सङ्ख्ये सगणं मयाद्य ॥६-५५-८२॥
नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्। तस्मादहं गृह्य रथाङ्गमुग्रं; प्राणं हरिष्यामि महाव्रतस्य ॥६-५५-८३॥
निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय रथप्रवीरम्। प्रीतिं करिष्यामि धनञ्जयस्य; राज्ञश्च भीमस्य तथाश्विनोश्च ॥६-५५-८४॥
निहत्य सर्वान्धृतराष्ट्रपुत्रां; स्तत्पक्षिणो ये च नरेन्द्रमुख्याः। राज्येन राजानमजातशत्रुं; सम्पादयिष्याम्यहमद्य हृष्टः ॥६-५५-८५॥
ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम्। क्षुरान्तमुद्यम्य भुजेन चक्रं; रथादवप्लुत्य विसृज्य वाहान् ॥६-५५-८६॥
सङ्कम्पयन्गां चरणैर्महात्मा; वेगेन कृष्णः प्रससार भीष्मम्। मदान्धमाजौ समुदीर्णदर्पः; सिंहो जिघांसन्निव वारणेन्द्रम् ॥६-५५-८७॥
सोऽभ्यद्रवद्भीष्ममनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी। व्यालम्बिपीतान्तपटश्चकाशे; घनो यथा खेऽचिरभापिनद्धः ॥६-५५-८८॥
सुदर्शनं चास्य रराज शौरे; स्तच्चक्रपद्मं सुभुजोरुनालम्। यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम् ॥६-५५-८९॥
तत्कृष्णकोपोदयसूर्यबुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्। तस्यैव देहोरुसरःप्ररूढं; रराज नारायणबाहुनालम् ॥६-५५-९०॥
तमात्तचक्रं प्रणदन्तमुच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य। सर्वाणि भूतानि भृशं विनेदुः; क्षयं कुरूणामिति चिन्तयित्वा ॥६-५५-९१॥
स वासुदेवः प्रगृहीतचक्रः; संवर्तयिष्यन्निव जीवलोकम्। अभ्युत्पतँल्लोकगुरुर्बभासे; भूतानि धक्ष्यन्निव कालवह्निः ॥६-५५-९२॥
तमापतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम्। असम्भ्रमात्कार्मुकबाणपाणी; रथे स्थितः शान्तनवोऽभ्युवाच ॥६-५५-९३॥
एह्येहि देवेश जगन्निवास; नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे। प्रसह्य मां पातय लोकनाथ; रथोत्तमाद्भूतशरण्य सङ्ख्ये ॥६-५५-९४॥
त्वया हतस्येह ममाद्य कृष्ण; श्रेयः परस्मिन्निह चैव लोके। सम्भावितोऽस्म्यन्धकवृष्णिनाथ; लोकैस्त्रिभिर्वीर तवाभियानात् ॥६-५५-९५॥
रथादवप्लुत्य ततस्त्वरावा; न्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्। जग्राह पीनोत्तमलम्बबाहुं; बाह्वोर्हरिं व्यायतपीनबाहुः ॥६-५५-९६॥
निगृह्यमाणश्च तदादिदेवो; भृशं सरोषः किल नाम योगी। आदाय वेगेन जगाम विष्णु; र्जिष्णुं महावात इवैकवृक्षम् ॥६-५५-९७॥
पार्थस्तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णमभिद्रवन्तम्। बलान्निजग्राह किरीटमाली; पदेऽथ राजन्दशमे कथञ्चित् ॥६-५५-९८॥
अवस्थितं च प्रणिपत्य कृष्णं; प्रीतोऽर्जुनः काञ्चनचित्रमाली। उवाच कोपं प्रतिसंहरेति; गतिर्भवान्केशव पाण्डवानाम् ॥६-५५-९९॥
न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश्च। अन्तं करिष्यामि यथा कुरूणां; त्वयाहमिन्द्रानुज सम्प्रयुक्तः ॥६-५५-१००॥
ततः प्रतिज्ञां समयं च तस्मै; जनार्दनः प्रीतमना निशम्य। स्थितः प्रिये कौरवसत्तमस्य; रथं सचक्रः पुनरारुरोह ॥६-५५-१०१॥
स तानभीषून्पुनराददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता। विनादयामास ततो दिशश्च; स पाञ्चजन्यस्य रवेण शौरिः ॥६-५५-१०२॥
व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम्। विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥६-५५-१०३॥
मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश्च। ससिंहनादाश्च बभूवुरुग्राः; सर्वेष्वनीकेषु ततः कुरूणाम् ॥६-५५-१०४॥
गाण्डीवघोषः स्तनयित्नुकल्पो; जगाम पार्थस्य नभो दिशश्च। जग्मुश्च बाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः ॥६-५५-१०५॥
तं कौरवाणामधिपो बलेन; भीष्मेण भूरिश्रवसा च सार्धम्। अभ्युद्ययावुद्यतबाणपाणिः; कक्षं दिधक्षन्निव धूमकेतुः ॥६-५५-१०६॥
अथार्जुनाय प्रजहार भल्ला; न्भूरिश्रवाः सप्त सुवर्णपुङ्खान्। दुर्योधनस्तोमरमुग्रवेगं; शल्यो गदां शान्तनवश्च शक्तिम् ॥६-५५-१०७॥
स सप्तभिः सप्त शरप्रवेका; न्संवार्य भूरिश्रवसा विसृष्टान्। शितेन दुर्योधनबाहुमुक्तं; क्षुरेण तत्तोमरमुन्ममाथ ॥६-५५-१०८॥
ततः शुभामापततीं स शक्तिं; विद्युत्प्रभां शान्तनवेन मुक्ताम्। गदां च मद्राधिपबाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः ॥६-५५-१०९॥
ततो भुजाभ्यां बलवद्विकृष्य; चित्रं धनुर्गाण्डिवमप्रमेयम्। माहेन्द्रमस्त्रं विधिवत्सुघोरं; प्रादुश्चकाराद्भुतमन्तरिक्षे ॥६-५५-११०॥
तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्यनीकानि महाधनुष्मान्। शरौघजालैर्विमलाग्निवर्णै; र्निवारयामास किरीटमाली ॥६-५५-१११॥
शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान्ध्वजाग्राणि धनूंषि बाहून्। निकृत्य देहान्विविशुः परेषां; नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ॥६-५५-११२॥
ततो दिशश्चानुदिशश्च पार्थः; शरैः सुधारैर्निशितैर्वितत्य। गाण्डीवशब्देन मनांसि तेषां; किरीटमाली व्यथयां चकार ॥६-५५-११३॥
तस्मिंस्तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश्च। अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुरुग्राश्च रणप्रणादाः ॥६-५५-११४॥
गाण्डीवशब्दं तमथो विदित्वा; विराटराजप्रमुखा नृवीराः। पाञ्चालराजो द्रुपदश्च वीर; स्तं देशमाजग्मुरदीनसत्त्वाः ॥६-५५-११५॥
सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः। ततस्ततः संनतिमेव जग्मु; र्न तं प्रतीपोऽभिससार कश्चित् ॥६-५५-११६॥
तस्मिन्सुघोरे नृपसम्प्रहारे; हताः प्रवीराः सरथाः ससूताः। गजाश्च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः ॥६-५५-११७॥
परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः। दृढाहताः पत्रिभिरुग्रवेगैः; पार्थेन भल्लैर्निशितैः शिताग्रैः ॥६-५५-११८॥
निकृत्तयन्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु। पदातिसङ्घाश्च रथाश्च सङ्ख्ये; हयाश्च नागाश्च धनञ्जयेन ॥६-५५-११९॥
बाणाहतास्तूर्णमपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुरुर्व्याम्। ऐन्द्रेण तेनास्त्रवरेण राज; न्महाहवे भिन्नतनुत्रदेहाः ॥६-५५-१२०॥
ततः शरौघैर्निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा। नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै ॥६-५५-१२१॥
वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा। परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का ॥६-५५-१२२॥
प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला। शरीरसङ्घातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसङ्कुला ॥६-५५-१२३॥
नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा। तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसङ्घैश्च तरक्षुभिश्च ॥६-५५-१२४॥
उपेतकूलां ददृशुः समन्तात्क्रूरां महावैतरणीप्रकाशाम्। प्रवर्तितामर्जुनबाणसङ्घैर्मेदोवसासृक्प्रवहां सुभीमाम् ॥६-५५-१२५॥
ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश्च सर्वे सहिताः प्रणेदुः। वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणामिव यूथसङ्घान् ॥ विनेदतुस्तावतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश्च ॥६-५५-१२६॥
ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः। तदैन्द्रमस्त्रं विततं सुघोर; मसह्यमुद्वीक्ष्य युगान्तकल्पम् ॥६-५५-१२७॥
अथापयानं कुरवः सभीष्माः; सद्रोणदुर्योधनबाह्लिकाश्च। चक्रुर्निशां सन्धिगतां समीक्ष्य; विभावसोर्लोहितराजियुक्ताम् ॥६-५५-१२८॥
अवाप्य कीर्तिं च यशश्च लोके; विजित्य शत्रूंश्च धनञ्जयोऽपि। ययौ नरेन्द्रैः सह सोदरैश्च; समाप्तकर्मा शिबिरं निशायाम् ॥ ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः ॥६-५५-१२९॥
रणे रथानामयुतं निहत्य; हता गजाः सप्तशतार्जुनेन। प्राच्याश्च सौवीरगणाश्च सर्वे; निपातिताः क्षुद्रकमालवाश्च ॥ महत्कृतं कर्म धनञ्जयेन; कर्तुं यथा नार्हति कश्चिदन्यः ॥६-५५-१३०॥
श्रुतायुरम्बष्ठपतिश्च राजा; तथैव दुर्मर्षणचित्रसेनौ। द्रोणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन् ॥ स्वबाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन ॥६-५५-१३१॥
इति ब्रुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये त्वदीयाः। उल्कासहस्रैश्च सुसम्प्रदीप्तै; र्विभ्राजमानैश्च तथा प्रदीपैः ॥ किरीटिवित्रासितसर्वयोधा; चक्रे निवेशं ध्वजिनी कुरूणाम् ॥६-५५-१३२॥