6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.056
Core and Pancharatra: The fourth day of battle begins with the same formation as the previous day. Bhishma is in no mood to relent, having been rebuked the previous day by Duryodhana. Arjuna comes face-to-face with him.
सञ्जय उवाच॥
व्युष्टां निशां भारत भारताना; मनीकिनीनां प्रमुखे महात्मा। ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः ॥६-५६-१॥
तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ। जयद्रथश्चातिबलो बलौघै; र्नृपास्तथान्येऽनुययुः समन्तात् ॥६-५६-२॥
स तैर्महद्भिश्च महारथै; श्च तेजस्विभिर्वीर्यवद्भिश्च राजन्। रराज राजोत्तम राजमुख्यै; र्वृतः स देवैरिव वज्रपाणिः ॥६-५६-३॥
तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः। सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः ॥६-५६-४॥
सा वाहिनी शान्तनवेन राज्ञा; महारथैर्वारणवाजिभिश्च। बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा ॥६-५६-५॥
ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शान्तनवाभिगुप्ता। सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः ॥६-५६-६॥
तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम्। व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः ॥६-५६-७॥
स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः। वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम् ॥६-५६-८॥
सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण सङ्ख्ये। कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः ॥६-५६-९॥
प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन। तं व्यूहराजं ददृशुस्त्वदीया; श्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥६-५६-१०॥
यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन। तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः ॥६-५६-११॥
ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ। शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः ॥६-५६-१२॥
ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः। क्षणेन भेरीपणवप्रणादा; नन्तर्दधुः शङ्खमहास्वनाश्च ॥६-५६-१३॥
तच्छङ्खशब्दावृतमन्तरिक्ष; मुद्धूतभौमद्रुतरेणुजालम्। महावितानावततप्रकाश; मालोक्य वीराः सहसाभिपेतुः ॥६-५६-१४॥
रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः। गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः ॥६-५६-१५॥
आवर्तमानान्यभिवर्तमानै; र्बाणैः क्षतान्यद्भुतदर्शनानि। प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः ॥६-५६-१६॥
सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः। विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ॥६-५६-१७॥
गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः। गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम् ॥६-५६-१८॥
गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः। आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम् ॥६-५६-१९॥
सम्भ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम्। महारथैः सम्परिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम् ॥६-५६-२०॥
तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः। महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शान्तनवोऽभ्यधावत् ॥६-५६-२१॥
तथैव शक्रप्रतिमानकल्प; मिन्द्रात्मजं द्रोणमुखाभिसस्रुः। कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन् ॥६-५६-२२॥
ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा। जवेन शूरोऽभिससार सर्वां; स्तथार्जुनस्यात्र सुतोऽभिमन्युः ॥६-५६-२३॥
तेषां महास्त्राणि महारथाना; मसक्तकर्मा विनिहत्य कार्ष्णिः। बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः ॥६-५६-२४॥
ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम्। जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः ॥६-५६-२५॥
ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्वादमहास्वनेन। विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली ॥६-५६-२६॥
तमुत्तमं सर्वधनुर्धराणा; मसक्तकर्मा कपिराजकेतुः। भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः ॥६-५६-२७॥
एवंविधं कार्मुकभीमनाद; मदीनवत्सत्पुरुषोत्तमाभ्याम्। ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥६-५६-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.