06.105
धृतराष्ट्र उवाच॥
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम्। पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥६-१०५-१॥
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम्। त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥६-१०५-२॥
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि। अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः ॥६-१०५-३॥
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम्। कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः ॥६-१०५-४॥
सञ्जय उवाच॥
नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत्। युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ ॥ निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः ॥६-१०५-५॥
अनेकशतसाहस्रास्तावकानां महारथाः। रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः ॥ अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥६-१०५-६॥
यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जयः। पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ॥६-१०५-७॥
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः। पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् ॥६-१०५-८॥
दशमेऽहनि सम्प्राप्ते तताप रिपुवाहिनीम्। कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥६-१०५-९॥
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज। अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् ॥६-१०५-१०॥
अथोपायान्महाराज सव्यसाची परन्तपः। त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥६-१०५-११॥
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः। शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥६-१०५-१२॥
तस्य शब्देन वित्रस्तास्तावका भरतर्षभ। सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥६-१०५-१३॥
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम्। दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥६-१०५-१४॥
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः। दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् ॥६-१०५-१५॥
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः। पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥६-१०५-१६॥
यथा पशुगणान्पालः सङ्कालयति कानने। तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥६-१०५-१७॥
धनञ्जयशरैर्भग्नं द्रवमाणमितस्ततः। भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् ॥६-१०५-१८॥
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ। अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम ॥६-१०५-१९॥
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः। व्यद्रावयेतां सहसा सैन्यं मम महाबलौ ॥६-१०५-२०॥
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः। नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥६-१०५-२१॥
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम। पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव ॥६-१०५-२२॥
एवमुक्तो महाराज पिता देवव्रतस्तव। चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥ तव सन्धारयन्पुत्रमब्रवीच्छन्तनोः सुतः ॥६-१०५-२३॥
दुर्योधन विजानीहि स्थिरो भव विशां पते। पूर्वकालं तव मया प्रतिज्ञातं महाबल ॥६-१०५-२४॥
हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम्। सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् ॥ इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥६-१०५-२५॥
अद्य चापि महत्कर्म प्रकरिष्ये महाहवे। अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् ॥६-१०५-२६॥
अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत्। भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे ॥६-१०५-२७॥
इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः। आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥६-१०५-२८॥
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ। आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् ॥६-१०५-२९॥
दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः। राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥६-१०५-३०॥
पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः। तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥६-१०५-३१॥
हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम्। सारोहाणां महाराज हयानां चायुतं पुनः ॥६-१०५-३२॥
पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः। प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥६-१०५-३३॥
न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम्। उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥६-१०५-३४॥
ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः। वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥६-१०५-३५॥
स युध्यमानो बहुभिर्भीष्मः शान्तनवस्तदा। अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः ॥६-१०५-३६॥
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन्। महत्या सेनया सार्धं ततो युद्धमवर्तत ॥६-१०५-३७॥