06.104
धृतराष्ट्र उवाच॥
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे। पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व सञ्जय ॥६-१०४-१॥
सञ्जय उवाच॥
ततः प्रभाते विमले सूर्यस्योदयनं प्रति। वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥६-१०४-२॥
ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः। शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ॥६-१०४-३॥
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम्। शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ॥६-१०४-४॥
चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ। पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥६-१०४-५॥
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः। धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥६-१०४-६॥
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः। प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥६-१०४-७॥
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः। द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ॥६-१०४-८॥
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान्। जघनं पालयामास पाण्डुसैन्यस्य भारत ॥६-१०४-९॥
एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम्। अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः ॥६-१०४-१०॥
तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम्। अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥६-१०४-११॥
पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः। ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ॥६-१०४-१२॥
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः। कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥६-१०४-१३॥
काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः। मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥६-१०४-१४॥
तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः। जघनं पालयामासुस्तव सैन्यस्य भारत ॥६-१०४-१५॥
दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि। आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥६-१०४-१६॥
ततः प्रववृते युद्धं तव तेषां च भारत। अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥६-१०४-१७॥
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्। भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ॥६-१०४-१८॥
तत्र भारत भीमेन पीडितास्तावकाः शरैः। रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥६-१०४-१९॥
नकुलः सहदेवश्च सात्यकिश्च महारथः। तव सैन्यं समासाद्य पीडयामासुरोजसा ॥६-१०४-२०॥
ते वध्यमानाः समरे तावका भरतर्षभ। नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥६-१०४-२१॥
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः। सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः ॥६-१०४-२२॥
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ। वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः ॥६-१०४-२३॥
धृतराष्ट्र उवाच॥
पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी। यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ॥६-१०४-२४॥
कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परन्तपः। विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व सञ्जय ॥६-१०४-२५॥
सञ्जय उवाच॥
आचक्षे ते महाराज यदकार्षीत्पितामहः। पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ॥६-१०४-२६॥
प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज। अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥६-१०४-२७॥
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम्। नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥६-१०४-२८॥
स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान्। अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ॥६-१०४-२९॥
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान्। आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः ॥ नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥६-१०४-३०॥
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु। रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः ॥६-१०४-३१॥
सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान्। गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् ॥६-१०४-३२॥
तमेकं समरे भीष्मं त्वरमाणं महारथम्। पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ॥६-१०४-३३॥
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान्। दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः ॥६-१०४-३४॥
मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत। सङ्ग्रामे युध्यमानस्य शक्रचापनिभं महत् ॥६-१०४-३५॥
तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते। विस्मयं परमं प्राप्ताः पितामहमपूजयन् ॥६-१०४-३६॥
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव। युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ॥ न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥६-१०४-३७॥
दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः। अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥६-१०४-३८॥
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे। आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥६-१०४-३९॥
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम्। अनिच्छन्नपि सङ्क्रुद्धः प्रहसन्निदमब्रवीत् ॥६-१०४-४०॥
काममभ्यस वा मा वा न त्वां योत्स्ये कथञ्चन। यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥६-१०४-४१॥
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः। उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ॥६-१०४-४२॥
जानामि त्वां महाबाहो क्षत्रियाणां क्षयङ्करम्। मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥६-१०४-४३॥
दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः। जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥६-१०४-४४॥
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम। अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम ॥६-१०४-४५॥
ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः। एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ॥६-१०४-४६॥
काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे। सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय ॥६-१०४-४७॥
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः। अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः ॥६-१०४-४८॥
तस्य तद्वचनं श्रुत्वा सव्यसाची परन्तपः। कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् ॥६-१०४-४९॥
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः। अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥६-१०४-५०॥
न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः। तस्मादद्य महाबाहो वीर भीष्ममभिद्रव ॥६-१०४-५१॥
अहत्वा समरे भीष्मं यदि यास्यसि मारिष। अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥६-१०४-५२॥
नावहास्या यथा वीर भवेम परमाहवे। तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥६-१०४-५३॥
अहं ते रक्षणं युद्धे करिष्यामि परन्तप। वारयन्रथिनः सर्वान्साधयस्व पितामहम् ॥६-१०४-५४॥
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम्। चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ॥६-१०४-५५॥
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम्। भगदत्तं तथा शूरं मागधं च महारथम् ॥६-१०४-५६॥
सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम्। त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ॥ अहमावारयिष्यामि वेलेव मकरालयम् ॥६-१०४-५७॥
कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः। निवारयिष्यामि रणे साधयस्व पितामहम् ॥६-१०४-५८॥