07.129
Core and Pancharatra: During the dreadful night battle, the enraged Pandavas and Srinjayas together launched an attack on Drona as the fierce combat continued.
धृतराष्ट्र उवाच॥
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी। उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् ॥७-१२९-१॥
प्रविश्य विचरन्तं च रणे शूरमवस्थितम्। कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ॥७-१२९-२॥
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः। के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे ॥७-१२९-३॥
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः। धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥७-१२९-४॥
सञ्जय उवाच॥
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च। सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥७-१२९-५॥
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः। पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् ॥७-१२९-६॥
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः। धृष्टद्युम्नः शतानीको विराटश्च सकेकयः ॥ मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि ॥७-१२९-७॥
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः। धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ॥७-१२९-८॥
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः। ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् ॥७-१२९-९॥
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः। द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ॥७-१२९-१०॥
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः। सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् ॥७-१२९-११॥
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ। बभूव रजनी घोरा भीरूणां भयवर्धिनी ॥७-१२९-१२॥
योधानामशिवा रौद्रा राजन्नन्तकगामिनी। कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ॥७-१२९-१३॥
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः। न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः ॥७-१२९-१४॥
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्। विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् ॥७-१२९-१५॥
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्। भेरीशब्देन महता मृदङ्गानां स्वनेन च ॥७-१२९-१६॥
गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः। खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ॥७-१२९-१७॥
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम्। द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ॥७-१२९-१८॥
तमसा चावृते लोके न प्राज्ञायत किञ्चन। सैन्येन रजसा चैव समन्तादुत्थितेन ह ॥७-१२९-१९॥
नरस्याश्वस्य नागस्य समसज्जत शोणितम्। नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ॥७-१२९-२०॥
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते। घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ॥७-१२९-२१॥
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते। उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ॥७-१२९-२२॥
भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम्। शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् ॥७-१२९-२३॥
ततः सा भारती सेना मणिहेमविभूषिता। द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ॥७-१२९-२४॥
गोमायुबडसङ्घुष्टा शक्तिध्वजसमाकुला। दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ॥७-१२९-२५॥
ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः। समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः ॥७-१२९-२६॥
सा निशीथे महाराज सेनादृश्यत भारती। अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ॥७-१२९-२७॥
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः। निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥७-१२९-२८॥
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः। सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ॥७-१२९-२९॥
दुर्योधनपुरोवातां रथनागबलाहकाम्। वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् ॥७-१२९-३०॥
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम्। शरधारास्त्रपवनां भृशं शीतोष्णसङ्कुलाम् ॥७-१२९-३१॥
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम्। तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः ॥७-१२९-३२॥
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते। भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥७-१२९-३३॥
रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे। द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ॥७-१२९-३४॥
ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः। तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ॥७-१२९-३५॥