Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.139
Core and Pancharatra: Duryodhana re-arranges his army to protect Drona, while Drona makes an advance towards Pandavas.
सञ्जय उवाच॥
प्रकाशिते तथा लोके रजसा च तमोवृते। समाजग्मुरथो वीराः परस्परवधैषिणः ॥७-१३९-१॥
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः। परस्परमुदैक्षन्त परस्परकृतागसः ॥७-१३९-२॥
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः। विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत ॥७-१३९-३॥
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत। दह्यमानेव लोकानामभावे वै वसुन्धरा ॥७-१३९-४॥
प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः। वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ॥७-१३९-५॥
असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक्। नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः ॥७-१३९-६॥
रथा रथवरैरेव समाजग्मुर्मुदान्विताः। तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् ॥७-१३९-७॥
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम्। व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ॥७-१३९-८॥
धृतराष्ट्र उवाच॥
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम्। अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा ॥७-१३९-९॥
किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने। दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥७-१३९-१०॥
के चैनं समरे वीरं प्रत्युद्ययुररिंदमम्। केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः ॥७-१३९-११॥
के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः। के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे ॥७-१३९-१२॥
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः। नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ॥७-१३९-१३॥
ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान्। धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् ॥७-१३९-१४॥
अव्यग्रानेव हि परान्कथयस्यपराजितान्। हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि ॥ रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥७-१३९-१५॥
सञ्जय उवाच॥
द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम्। दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत ॥७-१३९-१६॥
विकर्णं चित्रसेनं च महाबाहुं च कौरवम्। दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ॥७-१३९-१७॥
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः। हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ॥७-१३९-१८॥
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः। तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः ॥७-१३९-१९॥
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः। तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे ॥७-१३९-२०॥
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी। निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ॥७-१३९-२१॥
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः। द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् ॥७-१३९-२२॥
पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम्। यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः ॥७-१३९-२३॥
तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम्। स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् ॥७-१३९-२४॥
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे। धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् ॥७-१३९-२५॥
तथार्जुनं रणे कर्णो विजेष्यति महारथः। भीमसेनमहं चापि युद्धे जेष्यामि दंशितः ॥७-१३९-२६॥
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति। तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथाः ॥७-१३९-२७॥
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव। व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे ॥७-१३९-२८॥
ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ। उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः ॥७-१३९-२९॥
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः। नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् ॥७-१३९-३०॥
द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान्। छादयामासतुः सङ्ख्ये शरैः संनतपर्वभिः ॥७-१३९-३१॥
पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष। आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ॥७-१३९-३२॥
नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम्। युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् ॥७-१३९-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.