Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.140
Core and Pancharatra: Yudhishthira, setting the goal to kill Drona, leads the Pandava army from the front foot. One on one combat takes place between major warriors of both sides. Yudhishthira pierces the right arm of Kritavarma. Then Kritawarma manages to break the armour of Yudhishthira, making him retreat.
सञ्जय उवाच॥
वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते। सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः ॥७-१४०-१॥
अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान्। अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया ॥७-१४०-२॥
राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा। द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥७-१४०-३॥
तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः। यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे ॥७-१४०-४॥
कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत्। द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् ॥७-१४०-५॥
शैनेयं शरवर्षाणि विकिरन्तं समन्ततः। अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि ॥७-१४०-६॥
सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्। कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ॥७-१४०-७॥
भीमसेनमथायान्तं व्यादितास्यमिवान्तकम्। स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् ॥७-१४०-८॥
नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्। शकुनिः सौबलो राजन्वारयामास सत्वरः ॥७-१४०-९॥
शिखण्डिनमथायान्तं रथेन रथिनां वरम्। कृपो शारद्वतो राजन्वारयामास संयुगे ॥७-१४०-१०॥
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः। दुःशासनो महाराज यत्तो यत्तमवारयत् ॥७-१४०-११॥
भैमसेनिमथायान्तं मायाशतविशारदम्। अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् ॥७-१४०-१२॥
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्। वारयामास समरे द्रोणप्रेप्सुं महारथम् ॥७-१४०-१३॥
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति। मद्रराजः सुसङ्क्रुद्धो वारयामास भारत ॥७-१४०-१४॥
शतानीकमथायान्तं नाकुलिं रभसं रणे। चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया ॥७-१४०-१५॥
अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम्। अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् ॥७-१४०-१६॥
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे। धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ॥७-१४०-१७॥
तथान्यान्पाण्डुपुत्राणां समायातान्महारथान्। तावका रथिनो राजन्वारयामासुरोजसा ॥७-१४०-१८॥
गजारोहा गजैस्तूर्णं संनिपत्य महामृधे। योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥७-१४०-१९॥
निशीथे तुरगा राजन्नाद्रवन्तः परस्परम्। समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः ॥७-१४०-२०॥
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः। समागच्छन्महाराज विनदन्तः पृथक्पृथक् ॥७-१४०-२१॥
नरास्तु बहवस्तत्र समाजग्मुः परस्परम्। गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च सङ्घशः ॥७-१४०-२२॥
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्। वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम् ॥७-१४०-२३॥
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः। पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥७-१४०-२४॥
कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष। धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥७-१४०-२५॥
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः। हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥७-१४०-२६॥
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष। प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ॥७-१४०-२७॥
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च। प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् ॥७-१४०-२८॥
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्। प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः ॥७-१४०-२९॥
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्। विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ॥७-१४०-३०॥
तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम्। चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः ॥७-१४०-३१॥
सा हेमचित्रा महती पाण्डवेन प्रवेरिता। निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ॥७-१४०-३२॥
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः। हार्दिक्यं छादयामास शरैः संनतपर्वभिः ॥७-१४०-३३॥
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी। व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ॥७-१४०-३४॥
ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे। तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ॥७-१४०-३५॥
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्। प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ॥७-१४०-३६॥
तमापतन्तं सहसा धर्मराजभुजच्युतम्। द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव ॥७-१४०-३७॥
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत्। कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत् ॥७-१४०-३८॥
हार्दिक्यशरसञ्छिन्नं कवचं तन्महात्मनः। व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् ॥७-१४०-३९॥
स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः। अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ॥७-१४०-४०॥
कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम्। पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः ॥७-१४०-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.