Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.144
Core and Pancharatra: Intense battle between Shakuni and Nakula where finally unconscious Shakuni is taken away. Shikandin fights Kripa and faces defeat. In the night, their own people and others killed each other without any limits. The battle was terrible and frightening.
सञ्जय उवाच॥
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव। अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥७-१४४-१॥
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥७-१४४-२॥
यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति। तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि ॥७-१४४-३॥
तावुभौ समरे शूरौ शरकण्टकिनौ तदा। व्यराजेतां महाराज कण्टकैरिव शाल्मली ॥७-१४४-४॥
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ। क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ॥७-१४४-५॥
स्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव। कर्णिनैकेन विव्याध हृदये निशितेन ह ॥७-१४४-६॥
नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना। निषसाद रथोपस्थे कश्मलं चैनमाविशत् ॥७-१४४-७॥
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम्। ननाद शकुनी राजंस्तपान्ते जलदो यथा ॥७-१४४-८॥
प्रतिलभ्य ततः सञ्ज्ञां नकुलः पाण्डुनन्दनः। अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ॥७-१४४-९॥
सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ। पुनश्चैव शतेनैव नाराचानां स्तनान्तरे ॥७-१४४-१०॥
ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे। ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ॥७-१४४-११॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्। तं विसञ्ज्ञं निपतितं दृष्ट्वा स्यालं तवानघ ॥ अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ॥७-१४४-१२॥
ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः। निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः ॥ अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह ॥७-१४४-१३॥
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः। प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत ॥७-१४४-१४॥
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते। कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः ॥७-१४४-१५॥
गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम्। विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ॥७-१४४-१६॥
तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः। पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ॥७-१४४-१७॥
महद्युद्धं तयोरासीद्घोररूपं विशां पते। यथा देवासुरे युद्धे शम्बरामरराजयोः ॥७-१४४-१८॥
शरजालावृतं व्योम चक्रतुस्तौ महारथौ। प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः ॥७-१४४-१९॥
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्। कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा ॥७-१४४-२०॥
शिखण्डी तु महाराज गौतमस्य महद्धनुः। अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ॥७-१४४-२१॥
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्। स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ॥७-१४४-२२॥
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः। सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा ॥७-१४४-२३॥
अथान्यद्धनुरादाय गौतमो रथिनां वरः। प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ॥७-१४४-२४॥
स छाद्यमानः समरे गौतमेन यशस्विना। व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ॥७-१४४-२५॥
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि। आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ॥७-१४४-२६॥
विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम्। पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ॥७-१४४-२७॥
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्। महत्या सेनया सार्धं ततो युद्धमभूत्पुनः ॥७-१४४-२८॥
रथानां च रणे राजन्नन्योन्यमभिधावताम्। बभूव तुमुलः शब्दो मेघानां नदतामिव ॥७-१४४-२९॥
द्रवतां सादिनां चैव गजानां च विशां पते। अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ॥७-१४४-३०॥
पत्तीनां द्रवतां चैव पदशब्देन मेदिनी। अकम्पत महाराज भयत्रस्तेव चाङ्गना ॥७-१४४-३१॥
रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम्। न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव ॥७-१४४-३२॥
तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः। तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ॥७-१४४-३३॥
सादी सादिनमासाद्य पदाती च पदातिनम्। समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ॥७-१४४-३४॥
धावतां द्रवतां चैव पुनरावर्ततामपि। बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि ॥७-१४४-३५॥
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु। अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ॥७-१४४-३६॥
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता। दिवसप्रतिमा राजन्बभूव रणमूर्धनि ॥७-१४४-३७॥
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति। तथा नष्टं तमो घोरं दीपैर्दीप्तैरलङ्कृतम् ॥७-१४४-३८॥
शस्त्राणां कवचानां च मणीनां च महात्मनाम्। अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ॥७-१४४-३९॥
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे। अवधीत्समरे पुत्रं पिता भरतसत्तम ॥७-१४४-४०॥
पुत्रश्च पितरं मोहात्सखायं च सखा तथा। सम्बन्धिनं च सम्बन्धी स्वस्रीयं चापि मातुलः ॥७-१४४-४१॥
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम्। निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम् ॥७-१४४-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.