Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.143
Core and Pancharatra: Battle between Nakula and Chitrasena, Duryodhana's brother, Nakula wins. Battle between Drupada and Karna's son Vṛṣasena, where Drupada faces defeat. Dushasana takes on Prativindya.
सञ्जय उवाच॥
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव। चित्रसेनस्तव सुतो वारयामास भारत ॥७-१४३-१॥
नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम्। स च तं प्रतिविव्याध दशभिर्निशितैः शरैः ॥७-१४३-२॥
चित्रसेनो महाराज शतानीकं पुनर्युधि। नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ॥७-१४३-३॥
नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः। गात्रात्सञ्च्यावयामास तदद्भुतमिवाभवत् ॥७-१४३-४॥
सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप। उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ॥७-१४३-५॥
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः। धनुश्चैव महाराज यतमानस्य संयुगे ॥७-१४३-६॥
स छिन्नधन्वा समरे विवर्मा च महारथः। धनुरन्यन्महाराज जग्राहारिविदारणम् ॥७-१४३-७॥
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः। विव्याध समरे क्रुद्धो भरतानां महारथः ॥७-१४३-८॥
शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष। जघान चतुरो वाहान्सारथिं च नरोत्तमः ॥७-१४३-९॥
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः। नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ॥७-१४३-१०॥
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे। अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ॥७-१४३-११॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः। आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ॥७-१४३-१२॥
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम्। वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ॥७-१४३-१३॥
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम्। षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ॥७-१४३-१४॥
वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम्। बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ॥७-१४३-१५॥
तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे। व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ॥७-१४३-१६॥
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ। रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥७-१४३-१७॥
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ। किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ॥७-१४३-१८॥
वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः। विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः ॥७-१४३-१९॥
ततः शरसहस्राणि विमुञ्चन्विबभौ तदा। कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ॥७-१४३-२०॥
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम्। सम्प्राद्रवद्रणे राजन्निशीथे भैरवे सति ॥७-१४३-२१॥
प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः। व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः ॥७-१४३-२२॥
तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा। प्रावृट्काले महाराज विद्युद्भिरिव तोयदः ॥७-१४३-२३॥
ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः। यथेन्द्रभयवित्रस्ता दानवास्तारकामये ॥७-१४३-२४॥
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः। व्यराजन्त महाराज प्रदीपैरवभासिताः ॥७-१४३-२५॥
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत। मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत ॥७-१४३-२६॥
तेषु राजसहस्रेषु तावकेषु परेषु च। एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ॥७-१४३-२७॥
स विजित्य रणे शूरान्सोमकानां महारथान्। जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ॥७-१४३-२८॥
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून्। दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः ॥७-१४३-२९॥
तयोः समागमो राजंश्चित्ररूपो बभूव ह। व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव ॥७-१४३-३०॥
प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम्। दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ॥७-१४३-३१॥
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना। विरराज महाबाहुः सशृङ्ग इव पर्वतः ॥७-१४३-३२॥
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः। नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥७-१४३-३३॥
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम्। प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः ॥७-१४३-३४॥
सारथिं चास्य भल्लेन ध्वजं च समपातयत्। रथं च शतशो राजन्व्यधमत्तस्य धन्विनः ॥७-१४३-३५॥
पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो। चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः ॥७-१४३-३६॥
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः। अयोधयत्तव सुतं किरञ्शरशतान्बहून् ॥७-१४३-३७॥
क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत्। अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् ॥७-१४३-३८॥
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः। अन्ववर्तन्त वेगेन महत्या सेनया सह ॥७-१४३-३९॥
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम्। धनुर्गृह्य महाराज विव्याध तनयं तव ॥७-१४३-४०॥
ततस्तु तावकाः सर्वे परिवार्य सुतं तव। अभ्यवर्तन्त सङ्ग्रामे महत्या सेनया वृताः ॥७-१४३-४१॥
ततः प्रववृते युद्धं तव तेषां च भारत। निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ॥७-१४३-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.