Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.163
Pancharatra and Core: Battle between Sahadeva and Dushasana, where Sahadeva gains upper-hand. Karna who comes to his rescue is attacked by Bhima. Bhima comes onto Nakula's chariot when he loses his chariot to Karna. Battle between Arjuna and Drona with celestial weapons.
सञ्जय उवाच॥
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत्। रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥७-१६३-१॥
तस्यापतत एवाशु भल्लेनामित्रकर्शनः। माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥७-१६३-२॥
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः। हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥७-१६३-३॥
यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम्। ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् ॥७-१६३-४॥
स हयान्संनिगृह्याजौ स्वयं हयविशारदः। युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ॥७-१६३-५॥
तदस्यापूजयन्कर्म स्वे परे चैव संयुगे। हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥७-१६३-६॥
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्। पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥७-१६३-७॥
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम्। धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ॥७-१६३-८॥
छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत्। परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥७-१६३-९॥
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः। आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् ॥७-१६३-१०॥
संन्यवर्तत तं कर्णः सङ्घट्टित इवोरगः। तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥७-१६३-११॥
तौ वृषाविव सङ्क्रुद्धौ विवृत्तनयनावुभौ। वेगेन महतान्योन्यं संरब्धावभिपेततुः ॥७-१६३-१२॥
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः। अभिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥७-१६३-१३॥
गदया भीमसेनस्तु कर्णस्य रथकूबरम्। बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ॥७-१६३-१४॥
ततो भीमस्य राधेयो गदामादाय वीर्यवान्। अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥७-१६३-१५॥
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम्। तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः ॥ प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ॥७-१६३-१६॥
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः। पपात सारथिश्चास्य मुमोह गदया हतः ॥७-१६३-१७॥
स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः। ध्वजे शरासने चैव शरावापे च भारत ॥७-१६३-१८॥
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः। ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥७-१६३-१९॥
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्। हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः ॥७-१६३-२०॥
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ। आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ॥७-१६३-२१॥
लघुसन्धानयोगाभ्यां रथयोश्च रणेन च। मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥७-१६३-२२॥
उपारमन्त ते सर्वे योधास्माकं परे तथा। अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ॥७-१६३-२३॥
विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः। अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः ॥ पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः ॥७-१६३-२४॥
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत्। आमिषार्थं महाराज गगने श्येनयोरिव ॥७-१६३-२५॥
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया। तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥७-१६३-२६॥
यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे। ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥७-१६३-२७॥
ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम्। मुक्तं मुक्तं द्रोणचापात्तज्जघान धनञ्जयः ॥७-१६३-२८॥
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः। ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥७-१६३-२९॥
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया। तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः ॥७-१६३-३०॥
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि। अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ॥७-१६३-३१॥
मेने चात्मानमधिकं पृथिव्यामपि भारत। तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः ॥७-१६३-३२॥
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्। यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् ॥७-१६३-३३॥
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः। ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ॥७-१६३-३४॥
तदप्सरोभिराकीर्णं यक्षराक्षससङ्कुलम्। श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ॥७-१६३-३५॥
तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः। द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः ॥ विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश ॥७-१६३-३६॥
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्। न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ॥ विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ॥७-१६३-३७॥
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः। नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ॥७-१६३-३८॥
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना। तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥७-१६३-३९॥
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे। शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ॥७-१६३-४०॥
नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः। इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥७-१६३-४१॥
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ। अन्तर्हितानि भूतानि प्रकाशानि च सङ्घशः ॥७-१६३-४२॥
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः। सन्तापयन्रणे पार्थं भूतान्यन्तर्हितानि च ॥७-१६३-४३॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा। ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥७-१६३-४४॥
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः। सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥७-१६३-४५॥
ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान्। ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥७-१६३-४६॥
यदा न गम्यते पारं तयोरन्यतरस्य वा। ततः सङ्कुलयुद्धेन तद्युद्धं व्यकुलीकृतम् ॥७-१६३-४७॥
नाज्ञायत ततः किञ्चित्पुनरेव विशां पते। प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे ॥७-१६३-४८॥
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे। न स्म सम्पतते कश्चिदन्तरिक्षचरस्तदा ॥७-१६३-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.