07.164
सञ्जय उवाच॥
तस्मिंस्तथा वर्तमाने नराश्वगजसङ्क्षये। दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ॥७-१६४-१॥
स तु रुक्मरथासक्तो दुःशासनशरार्दितः। अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ॥७-१६४-२॥
क्षणेन स रथस्तस्य सध्वजः सहसारथिः। नादृश्यत महाराज पार्षतस्य शरैश्चितः ॥७-१६४-३॥
दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः। नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ॥७-१६४-४॥
स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः। किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे ॥७-१६४-५॥
प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम्। सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ॥७-१६४-६॥
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ। द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ॥७-१६४-७॥
सम्प्रहारमकुर्वंस्ते सर्वे सप्त महारथाः। अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ॥७-१६४-८॥
शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः। आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ॥७-१६४-९॥
शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः। धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् ॥७-१६४-१०॥
न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च। नात्र कर्णी न नालीको न लिप्तो न च वस्तकः ॥७-१६४-११॥
न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः। इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ॥७-१६४-१२॥
ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन्। सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ॥७-१६४-१३॥
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम्। चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ॥७-१६४-१४॥
धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान्। यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् ॥७-१६४-१५॥
निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः। समसज्जन्त चत्वारो वाताः पर्वतयोरिव ॥७-१६४-१६॥
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ। समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ॥७-१६४-१७॥
दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम्। यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ॥७-१६४-१८॥
दुर्योधनो महाराज किरञ्शोणितभोजनान्। तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ॥७-१६४-१९॥
तौ परस्परमासाद्य समीपे कुरुमाधवौ। हसमानौ नृशार्दूलावभीतौ समगच्छताम् ॥७-१६४-२०॥
बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ। अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः ॥७-१६४-२१॥
अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत। प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ॥७-१६४-२२॥
धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम्। धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ॥७-१६४-२३॥
यत्त्वं मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव। त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ॥७-१६४-२४॥
स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ। तानि सर्वाणि जीर्णानि साम्प्रतं नौ रणाजिरे ॥ किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत ॥७-१६४-२५॥
तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत। प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ॥७-१६४-२६॥
नेयं सभा राजपुत्र न चाचार्यनिवेशनम्। यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ॥७-१६४-२७॥
दुर्योधन उवाच॥
क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुङ्गव। क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ॥७-१६४-२८॥
किं नु नो विद्यते कृत्यं धनेन धनलिप्सया। यत्र युध्यामहे सर्वे धनलोभात्समागताः ॥७-१६४-२९॥
सञ्जय उवाच॥
तं तथावादिनं तत्र राजानं माधवोऽब्रवीत्। एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि ॥७-१६४-३०॥
यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः। त्वत्कृते सुकृताँल्लोकान्गच्छेयं भरतर्षभ ॥७-१६४-३१॥
या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय। नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् ॥७-१६४-३२॥
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः। अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते ॥७-१६४-३३॥
तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः। शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ॥७-१६४-३४॥
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः। अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ॥७-१६४-३५॥
ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम्। दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः ॥७-१६४-३६॥
तं सात्यकिः प्रत्यविद्धत्तथैव दशभिः शरैः। पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ॥७-१६४-३७॥
तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम्। अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् ॥७-१६४-३८॥
स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम्। दुर्योधनो महाराज दाशार्हशरपीडितः ॥७-१६४-३९॥
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात्। विसृजन्निषुजालानि युयुधानरथं प्रति ॥७-१६४-४०॥
तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति। प्रततं व्यसृजद्राजंस्तत्सङ्कुलमवर्तत ॥७-१६४-४१॥
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः। अग्नेरिव महाकक्षे शब्दः समभवन्महान् ॥७-१६४-४२॥
तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम्। क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ॥७-१६४-४३॥
न तु तं मर्षयामास भीमसेनो महाबलः। अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ॥७-१६४-४४॥
तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव। धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ॥७-१६४-४५॥
भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः। ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः ॥७-१६४-४६॥
अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत। विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ॥७-१६४-४७॥
सङ्कुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत्। पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान् ॥७-१६४-४८॥
ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः। त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ॥७-१६४-४९॥
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः। तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥७-१६४-५०॥
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः। जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ ॥७-१६४-५१॥
जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः। हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् ॥७-१६४-५२॥
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः। चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ॥७-१६४-५३॥
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः। भीमसेनपुरोगाश्च एकतः पर्यवारयन् ॥७-१६४-५४॥
आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः। यमौ च भीमसेनश्च प्राक्रोशन्त धनञ्जयम् ॥७-१६४-५५॥
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद। तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ॥७-१६४-५६॥
कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत्। पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ॥७-१६४-५७॥
पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत्। यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ॥७-१६४-५८॥
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि। नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः ॥७-१६४-५९॥
वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा। द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम् ॥७-१६४-६०॥
तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः। अभवद्भैरवो नादो वध्यतां शरशक्तिभिः ॥७-१६४-६१॥
वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना। उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ॥७-१६४-६२॥
दृष्ट्वाश्वनरसङ्घानां विपुलं च क्षयं युधि। पाण्डवेया महाराज नाशंसुर्विजयं तदा ॥७-१६४-६३॥
कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित्। समिद्धः शिशिरापाये दहन्कक्षमिवानलः ॥७-१६४-६४॥
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम्। न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् ॥७-१६४-६५॥
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान्। मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ॥७-१६४-६६॥
नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन। अपि वृत्रहणा युद्धे रथयूथपयूथपः ॥७-१६४-६७॥
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव। यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥७-१६४-६८॥
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम। तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ॥७-१६४-६९॥
एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः। अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥७-१६४-७०॥
ततो भीमो महाबाहुरनीके स्वे महागजम्। जघान गदया राजन्नश्वत्थामानमित्युत ॥७-१६४-७१॥
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे। अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ॥७-१६४-७२॥
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत्। कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ॥७-१६४-७३॥
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम्। मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ॥७-१६४-७४॥
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै। हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ॥७-१६४-७५॥
स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत्। अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ॥७-१६४-७६॥
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः। अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ॥७-१६४-७७॥
तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः। तथा चरन्तं सङ्ग्रामे सर्वतो व्यकिरञ्शरैः ॥७-१६४-७८॥
ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परन्तपः। वधाय तेषां शूराणां पाञ्चालानाममर्षितः ॥७-१६४-७९॥
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान्। शिरांस्यपातयच्चापि पाञ्चालानां महामृधे ॥ तथैव परिघाकारान्बाहून्कनकभूषणान् ॥७-१६४-८०॥
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः। मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ॥७-१६४-८१॥
कुञ्जराणां च पततां हयौघानां च भारत। अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥७-१६४-८२॥
हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान्। अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥७-१६४-८३॥
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान्। वसुदानस्य भल्लेन शिरः कायादपाहरत् ॥७-१६४-८४॥
पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान्। हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः ॥७-१६४-८५॥
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम्। ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः ॥७-१६४-८६॥
विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः। वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः ॥७-१६४-८७॥
सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः। भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः ॥७-१६४-८८॥
त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम्। अधर्मतः कृतं युद्धं समयो निधनस्य ते ॥७-१६४-८९॥
न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान्। नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि ॥७-१६४-९०॥
वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च। ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ॥७-१६४-९१॥
न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते। परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ॥७-१६४-९२॥
इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत्। धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाभवत् ॥७-१६४-९३॥
स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम्। अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ॥७-१६४-९४॥
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम्। त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन ॥७-१६४-९५॥
तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्विशेषतः। तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे ॥७-१६४-९६॥
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम्। द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् ॥७-१६४-९७॥
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः। सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ॥७-१६४-९८॥
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत्। अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ॥७-१६४-९९॥
तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम्। श्रुत्वैव तं महाराज वधोपायं महात्मनः ॥७-१६४-१००॥
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः। अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ॥७-१६४-१०१॥
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्। अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति ॥७-१६४-१०२॥
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः। स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः ॥७-१६४-१०३॥
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम्। त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः ॥ सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप ॥७-१६४-१०४॥
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः। भावित्वाच्च महाराज वक्तुं समुपचक्रमे ॥७-१६४-१०५॥
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः। अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत ॥७-१६४-१०६॥
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः। बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् ॥७-१६४-१०७॥
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः। पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् ॥७-१६४-१०८॥
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम्। ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् ॥७-१६४-१०९॥
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च। योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम ॥७-१६४-११०॥
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम्। पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ॥७-१६४-१११॥
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे। लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ॥७-१६४-११२॥
स धनुर्जैत्रमादाय घोरं जलदनिस्वनम्। दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् ॥७-१६४-११३॥
संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम्। द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् ॥७-१६४-११४॥
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे। द्योततो भास्करस्येव घनान्ते परिवेशिनः ॥७-१६४-११५॥
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः। अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः ॥७-१६४-११६॥
तमिषुं संहितं तेन भारद्वाजः प्रतापवान्। दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् ॥७-१६४-११७॥
ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे। न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः ॥७-१६४-११८॥
तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता। तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ॥७-१६४-११९॥
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः। विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् ॥७-१६४-१२०॥
उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः। तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् ॥७-१६४-१२१॥
अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः। शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् ॥७-१६४-१२२॥
ततस्तं शरवर्षेण महता समवाकिरत्। व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणः ॥७-१६४-१२३॥
तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः। ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ॥७-१६४-१२४॥
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम्। शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ॥७-१६४-१२५॥
सोऽतिविद्धो महेष्वासः सम्भ्रान्त इव संयुगे। भल्लेन शितधारेण चिच्छेदास्य महद्धनुः ॥७-१६४-१२६॥
यच्चास्य बाणं विकृतं धनूंषि च विशां पते। सर्वं सञ्छिद्य दुर्धर्षो गदां खड्गमथापि च ॥७-१६४-१२७॥
धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः। जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परन्तपः ॥७-१६४-१२८॥
धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः। अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ॥७-१६४-१२९॥
ते मिश्रा बह्वशोभन्त जवना वातरंहसः। पारावतसवर्णाश्च शोणाश्च भरतर्षभ ॥७-१६४-१३०॥
यथा सविद्युतो मेघा नदन्तो जलदागमे। तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ॥७-१६४-१३१॥
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च। प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ॥७-१६४-१३२॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः। उत्तमामापदं प्राप्य गदां वीरः परामृशत् ॥७-१६४-१३३॥
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः। निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ॥७-१६४-१३४॥
तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः। विमलं खड्गमादत्त शतचन्द्रं च भानुमत् ॥७-१६४-१३५॥
असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत। वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ॥७-१६४-१३६॥
ततः स्वरथनीडस्थः स्वरथस्य रथेषया। अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ॥७-१६४-१३७॥
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः। इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे ॥७-१६४-१३८॥
सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च। शोणानां जघनार्धेषु तत्सैन्याः समपूजयन् ॥७-१६४-१३९॥
तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः। नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ॥७-१६४-१४०॥
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः। तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे ॥७-१६४-१४१॥
तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी। सर्वानेकैकशो द्रोणः कपोताभानजीघनत् ॥७-१६४-१४२॥
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः। शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते ॥७-१६४-१४३॥
तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः। नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ॥७-१६४-१४४॥
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः। द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ॥७-१६४-१४५॥
तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः। यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे ॥७-१६४-१४६॥
सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम्। भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ॥७-१६४-१४७॥
परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन्। सम्पातं समुदीर्णं च दर्शयामास पार्षतः ॥७-१६४-१४८॥
ततः शरसहस्रेण शतचन्द्रमपातयत्। खड्गं चर्म च सम्बाधे धृष्टद्युम्नस्य स द्विजः ॥७-१६४-१४९॥
ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः। निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ॥७-१६४-१५०॥
शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च। प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः ॥७-१६४-१५१॥
अथास्येषुं समाधत्त दृढं परमसंशितम्। अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् ॥७-१६४-१५२॥
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः। पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ॥ ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥७-१६४-१५३॥
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम्। द्रोणकर्णान्तरगतं कृपस्यापि च भारत ॥ अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ ॥७-१६४-१५४॥
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति। दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् ॥ अभिपत्य ततः सेनां विष्वक्सेनधनञ्जयौ ॥७-१६४-१५५॥
धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव। आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः ॥७-१६४-१५६॥
आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः। माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् ॥७-१६४-१५७॥
यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः। महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ॥७-१६४-१५८॥
तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः। अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् ॥ योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ॥७-१६४-१५९॥