07.162
सञ्जय उवाच॥
ते तथैव महाराज दंशिता रणमूर्धनि। सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥७-१६२-१॥
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे। प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥७-१६२-२॥
द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात्। तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥७-१६२-३॥
रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः। हया हयैः समाजग्मुः पादाताश्च पदातिभिः ॥ संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे ॥७-१६२-४॥
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा। क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा बहवोऽभवन् ॥७-१६२-५॥
शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम्। विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥७-१६२-६॥
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ। द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् ॥७-१६२-७॥
हयानां हेषतां चैव रथानां च निवर्तताम्। क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥७-१६२-८॥
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः। नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥७-१६२-९॥
भूमावश्रूयत महांस्तदासीत्कृपणं महत्। पततां पतितानां च पत्त्यश्वरथहस्तिनाम् ॥७-१६२-१०॥
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः। स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे ॥७-१६२-११॥
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च। असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥७-१६२-१२॥
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः। स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥७-१६२-१३॥
अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः। निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥७-१६२-१४॥
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्। शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ॥७-१६२-१५॥
आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम्। नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् ॥७-१६२-१६॥
शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः। विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ॥ संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ॥७-१६२-१७॥
युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः। क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि ॥ नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥७-१६२-१८॥
मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः। कथञ्चिदवहञ्श्रान्ता वेपमानाः शरार्दिताः ॥ कुलसत्त्वबलोपेता वाजिनो वारणोपमाः ॥७-१६२-१९॥
विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम्। बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥७-१६२-२०॥
तावेवास्तां निलयनं तावार्तायनमेव च। तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥७-१६२-२१॥
आविग्नमभवत्सर्वं कौरवाणां महद्बलम्। पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ॥७-१६२-२२॥
अन्तकाक्रीडसदृशे भीरूणां भयवर्धने। पृथिव्यां राजवंशानामुत्थिते महति क्षये ॥७-१६२-२३॥
न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम्। न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥७-१६२-२४॥
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ। न कृपं मद्रराजं वा कृतवर्माणमेव च ॥७-१६२-२५॥
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा। पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ॥७-१६२-२६॥
सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते। द्वितीयामिव सम्प्राप्ताममन्यन्त निशां तदा ॥७-१६२-२७॥
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः। न दिशो न दिवं नोर्वीं न समं विषमं तथा ॥७-१६२-२८॥
हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान्। न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥७-१६२-२९॥
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च। प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ॥७-१६२-३०॥
तत्र नागा हया योधा रथिनोऽथ पदातयः। पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥७-१६२-३१॥
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा। पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥७-१६२-३२॥
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत। वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥७-१६२-३३॥
तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः। रथर्षभाणामुग्राणां संनिपातममानुषम् ॥७-१६२-३४॥
रथमार्गैर्विचित्रैश्च विचित्ररथसङ्कुलम्। अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥७-१६२-३५॥
यतमानाः पराक्रान्ताः परस्परजिगीषवः। जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥७-१६२-३६॥
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः। अशोभन्त यथा मेघाः शारदाः समुपस्थिताः ॥७-१६२-३७॥
स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः। अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव ॥७-१६२-३८॥
न नूनं देहभेदोऽस्ति काले तस्मिन्समागते। यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥७-१६२-३९॥
बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः। कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः ॥७-१६२-४०॥
नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः। अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥७-१६२-४१॥
चित्रैश्च विविधाकारैः शरीरावरणैरपि। विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥७-१६२-४२॥
शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः। अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥७-१६२-४३॥
वातायमानैरसकृद्धतवीरैरलङ्कृतैः। व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥७-१६२-४४॥
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः। हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥७-१६२-४५॥
उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च। आसीदायोधनं तत्र नभस्तारागणैरिव ॥७-१६२-४६॥
ततो दुर्योधनस्यासीन्नकुलेन समागमः। अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥७-१६२-४७॥
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्। किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् ॥७-१६२-४८॥
अपसव्यं कृतः सङ्ख्ये भ्रातृव्येनात्यमर्षिणा। सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः ॥७-१६२-४९॥
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्। न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥७-१६२-५०॥
सर्वतो विनिवार्यैनं शरजालेन पीडयन्। विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥७-१६२-५१॥
तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव। संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च ॥७-१६२-५२॥