08.001
वैशम्पायन उवाच॥
ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः। भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ॥८-१-१॥
ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः। पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ॥८-१-२॥
मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः। रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ॥८-१-३॥
विशेषतः सूतपुत्रो राजा चैव सुयोधनः। दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे ॥८-१-४॥
ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम्। चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे ॥८-१-५॥
सहितास्ते निशायां तु दुर्योधननिवेशने। अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् ॥८-१-६॥
यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम्। तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः ॥८-१-७॥
चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान्। कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् ॥८-१-८॥
ततः प्रभाते विमले स्थिता दिष्टस्य शासने। चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा ॥८-१-९॥
ते कृत्वावश्यकार्याणि समाश्वस्य च भारत। योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः ॥८-१-१०॥
कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः। वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः ॥८-१-११॥
निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः। वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः ॥८-१-१२॥
तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः। शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः ॥८-१-१३॥
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्। कुरूणां पाण्डवानां च परस्परवधैषिणाम् ॥८-१-१४॥
तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः। कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् ॥८-१-१५॥
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः। पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ॥८-१-१६॥
ततस्तत्सञ्जयः सर्वं गत्वा नागाह्वयं पुरम्। आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ॥८-१-१७॥
जनमेजय उवाच॥
आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः। यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः ॥८-१-१८॥
स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम्। कथं द्विजवर प्राणानधारयत दुःखितः ॥८-१-१९॥
यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः। तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् ॥८-१-२०॥
दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम्। यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः ॥८-१-२१॥
तथा शान्तनवं वृद्धं ब्रह्मन्बाह्लिकमेव च। द्रोणं च सोमदत्तं च भूरिश्रवसमेव च ॥८-१-२२॥
तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान्। श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ॥८-१-२३॥
एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥८-१-२४॥
वैशम्पायन उवाच॥
हते कर्णे महाराज निशि गावल्गणिस्तदा। दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ॥८-१-२५॥
स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः। जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ॥८-१-२६॥
स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम्। ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ॥८-१-२७॥
सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम्। हा कष्टमिति चोक्त्वा स ततो वचनमाददे ॥८-१-२८॥
सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान्। स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि ॥८-१-२९॥
हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः। अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥८-१-३०॥
रामनारदकण्वैश्च हितमुक्तं सभातले। नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥८-१-३१॥
सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः। निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥८-१-३२॥
तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम्। सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् ॥८-१-३३॥
गाङ्गेये निहते शूरे दिव्यास्त्रवति सञ्जय। द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ॥८-१-३४॥
यो रथानां सहस्राणि दंशितानां दशैव हि। अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः ॥८-१-३५॥
स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना। पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः ॥८-१-३६॥
भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने। साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः ॥८-१-३७॥
यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः। महारथत्वं सम्प्राप्तास्तथान्ये वसुधाधिपाः ॥८-१-३८॥
तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे। सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः ॥८-१-३९॥
त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः। तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ॥८-१-४०॥
संशप्तकानां च बले पाण्डवेन महात्मना। धनञ्जयेन विक्रम्य गमिते यमसादनम् ॥८-१-४१॥
नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः। हतशेषेष्वनीकेषु किमकुर्वत मामकाः ॥८-१-४२॥
विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे। प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे ॥८-१-४३॥
दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः। मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ॥८-१-४४॥
मत्पुत्रशेषस्य तथा तथान्येषां च सञ्जय। विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् ॥८-१-४५॥
एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे। आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः ॥८-१-४६॥
सञ्जय उवाच॥
पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष। तच्छ्रुत्वा मा व्यथां कार्षीदिष्टे न व्यथते मनः ॥८-१-४७॥
यस्मादभावी भावी वा भवेदर्थो नरं प्रति। अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः ॥८-१-४८॥
धृतराष्ट्र उवाच॥
न व्यथा शृण्वतः काचिद्विद्यते मम सञ्जय। दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् ॥८-१-४९॥