08.002
सञ्जय उवाच॥
हते द्रोणे महेष्वासे तव पुत्रा महारथाः। बभूवुराश्वस्तमुखा विषण्णा गतचेतसः ॥८-२-१॥
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते। अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् ॥८-२-२॥
तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत। ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः ॥८-२-३॥
शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः। प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् ॥८-२-४॥
तानि बद्धान्यनिष्टानि लम्बमानानि भारत। अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ॥८-२-५॥
तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम्। स्वं बलं तन्महाराज राजा दुर्योधनोऽब्रवीत् ॥८-२-६॥
भवतां बाहुवीर्यं हि समाश्रित्य मया युधि। पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् ॥८-२-७॥
तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते। युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः ॥८-२-८॥
जयो वापि वधो वापि युध्यमानस्य संयुगे। भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ॥८-२-९॥
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि। प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् ॥८-२-१०॥
यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः। निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा ॥८-२-११॥
येन नागायुतप्राणो भीमसेनो महाबलः। मानुषेणैव युद्धेन तामवस्थां प्रवेशितः ॥८-२-१२॥
येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः। अमोघया रणे शक्त्या निहतो भैरवं नदन् ॥८-२-१३॥
तस्य दुष्पारवीर्यस्य सत्यसन्धस्य धीमतः। बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे ॥८-२-१४॥
द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः। पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः ॥८-२-१५॥
सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः। शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ॥८-२-१६॥
एवमुक्ते महाराज कर्णो वैकर्तनो नृपः। सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः ॥८-२-१७॥
स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम्। केकयानां विदेहानामकरोत्कदनं महत् ॥८-२-१८॥
तस्येषुधाराः शतशः प्रादुरासञ्शरासनात्। अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः ॥८-२-१९॥
स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः। हत्वा सहस्रशो योधानर्जुनेन निपातितः ॥८-२-२०॥